________________
९४
कातन्त्रव्याकरणम्
अधिकरणे युट् - क्तौ न स्याताम्, अधिकरणत्वाभावादिति श्रीपतिकृतः पूर्वपक्षः पाणिनिमते दुर्निवार एव । अस्मन्मते त्वनशनार्थस्य वसतेः सकर्मकत्वमेव न विवक्षितमिति । तीर्थे उपवसतीत्यधिकरणमेव । 'त्रिरात्रम् उपवसति' इत्यत्र तु वसतिर्निवासार्थ एवेति । यदि पुनरनशनार्थ एव विवक्ष्यते, तदा 'कालाध्वभावमन्तव्याः' इत्यनेन द्वितीयेति संक्षेपः।
"दिवः कर्म" (अ० १।४।४३) इति पाणिनिः। अस्यार्थः - दिवः प्रयोगे करणम्, कर्म च भवति । चकारो युगपद् उभयसंज्ञासमावेशार्थः । अन्यथा यदि कर्मकरणयोः पाक्षिकवृत्तिः स्यात् तदा चकारमकृत्वा "परिक्रयणे सम्प्रदानमन्यतरस्याम्" (अ० १।४।४४) इत्युत्तरसूत्रस्थितम् अन्यतरस्याम् इत्यत्रैव कृतं स्यात् । अतः श्रीपतिरपि “दिवस्तेन करणम्" (कात० परि० का० १६) इति सूत्रं प्रणीतवान् । दिवः प्रयोगे तेन कर्मणा सह करणं भवति । करणविषये युगपद् उभयसंज्ञे स्याताम् इत्यर्थः । तेन करणे कर्मत्वस्यापि सत्त्वात् "भावाख्यातं ध्रौव्यात्" (कात० परि०, का० ९६) इत्यनेन ‘अक्षैर्दीव्यते' इति भावे प्रयोगो न भवति । तथा ‘अक्षेर्दूतोऽयम्' इत्यपि प्रयोगो न भवत्येव, करणे कर्मणः सत्त्वात् । अकर्मकलक्षणः कर्तरि क्तप्रत्ययो न स्यात् (किन्तु अक्षा द्यूतास्तेनेत्यपि भवति)। तथा 'अक्षैर्देवयते छात्रेण' इत्यत्र सकर्मकत्वात् कर्तुः कर्मत्वं न भवतीति । किञ्च “अणावकर्मकाच्चित्तवत् कर्तृकात्" (अ० १।३।८८), इत्यनेन परस्मैपदमपि न भवति । तथा 'अक्षैर्दीव्यतीत्यस्मिन्' इति अक्षाणां द्यूतं स्थानमिति करणे कर्मत्वस्य सत्त्वाद् अकर्मकलक्षणः क्तोऽधिकरणे न स्यात्, । तथा 'अक्षर्देविता' इति न भवति, किन्तु ‘अक्षाणां देविता' इत्येव भवति, करणे कर्मणः सत्त्वात् । कृद्योगलक्षणषष्ठ्याः परत्वात् प्राप्तेरित्युभयसंज्ञाफलम् उद्भावितं श्रीपतिना ।अस्मन्मते कर्मकरणयोः पाक्षिकविधानात् करणपक्षे कर्मत्वाभावाद् भावादौ अक्षैर्दीव्यते इत्याद्यपप्रयोगः स्यात् । तथा मनसादेवीत्यत्रास्मन्मते करणपक्षे कर्मत्वाभावात् “कर्मण्यण्" (४।३।१) इत्यण् प्रत्ययो न स्यात् । अत्र महान्तः - युगपद् उभयसंज्ञासमावेशार्थश्चकार इति क एवमाह |
न च "दिवः कर्म च" (अ० १।४।४३) इत्यत्रैवान्यतरस्यामिति सिद्धे चकारो व्यर्थ इति वाच्यम्, चकारकरणस्योत्तरत्र दिवो निवृत्त्यर्थत्वेनैव सार्थकत्वात् । ततश्च पाणिनिमतेऽपि कर्मकरणयोः पाक्षिकविधानमेव । अत एव पत्रीकारेणापि दिवः प्रयोगे