________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
करणस्य पक्षे कर्मसंज्ञार्थं “दिवः कर्म च " ( अ० १ |४ | ४३ ) इति न वक्तव्यम् । अत एव चन्द्रगोमिनापि वचनमिदं प्रत्याख्यातम् । न च वार्त्तिके युगपद् उभयसंज्ञासमावेशाद् विरोध इति वाच्यम्, भाषाव्युत्पादकचन्द्रगोमिविरोधेन वार्त्तिकस्य छन्दोविषयकत्वकल्पनात् । तेन वार्त्तिकस्योभयसंज्ञासमावेशेन यद् यत् पदं न भवतीत्युच्यते तत्तदेव पदं भाषायां चन्द्रगोमिमतानुसारेण पाणिनिमतेऽपि भवत्येव । तस्मादस्माभिरपि भाषाव्युत्पादकचन्द्रगोमिमतानुसरणमेव रमणीयमिति भाव्यम् । यत्तु 'मनसादेवी' इति "कर्मण्यण्" ( ४ | ३|१) प्रत्ययो न स्यात्, कर्मत्वाभावाद् इत्युक्तम्, तत्तु पचाद्यचा सिद्धम् इति रक्षितः। तदा तावेव तृतीया, संज्ञाशब्दत्वात् तस्य साधुत्वमिति केचित् ।
९५
-
अथ यदि वार्त्तिकश्रीपतिविरोधेनापरितोषस्तदैवं व्याख्यायते पञ्जी । करणस्य पक्षे कर्मसंज्ञार्थमिति । यस्मिन् पक्षे करणत्वं तस्मिन् पक्षे कर्मसंज्ञार्थं सूत्रं न वक्तव्यमित्यर्थः । (पक्षशब्दोंऽशवचनः ) । ननु 'कर्मणः' इति सापेक्षत्वात् कथं समास इत्याह – अथवेति । अत्र करणे कर्मणो न विवक्षा, किन्तु धातोः सकर्मकत्वविवक्षायां कर्मत्वमेवेति हृदि कृत्वा पूर्वपक्षयति – यदीत्यादि । करणस्येति धातोः सकर्मकत्वे विवक्षिते करणस्य विवक्षा कर्मणीति शेषः । ततश्चाधाराधेयत्वेन विवक्षितयोः कर्मकरणयोर्युगपत्संभवेनोभयसंज्ञासमावेशोऽप्यविरुद्ध एवेति । न ह्याधारः आधेयेन दूरीक्रियते इति वार्त्तिकश्रीपतिभ्यां सहास्माकं समानः पन्थाः । ननु यदि युगपद् उभयसंज्ञासमावेशस्तर्हि कथम् ' अक्षा दीव्यन्ते' इति प्रयोगः, करणस्यापि सत्त्वात् तृतीयाप्राप्तेः ।
न चात्मनेपदेन कर्मणः उक्तार्थत्वात् प्रथमा स्यादिति वाच्यम्, करणस्याख्यातेनानुक्तत्वात्, अतस्तद्बाधिका तृतीयैव प्राप्नोति ? सत्यम् । अत्रोभयसंज्ञासमावेशेनापि शक्तिद्वयं न कल्प्यते, किन्तु एकस्यैव साधकतमरूपशक्तिविशेषस्य संज्ञाद्वयं विधीयते इति ततश्चैकस्यैव शक्तिविशेषस्यात्मनेपदेनोक्तत्वात् कथं तृतीयेति स्वयमेव भाव्यतामिति । 'कालभावाध्वगन्तव्याः' इत्ययं पाठः सकलपाणिनितन्त्रे प्रसिद्धः । भावशब्दोऽत्र क्रियावचनो गन्तव्यतया विवक्षितोऽध्वेत्यर्थः । यद्यपि दोहादिक्रिययापि कालो लक्ष्यते, तथापि कालग्रहणेन नास्ति निर्वाहः । स हि 'कं
१. ननु 'ओदनपाकं शेते, गोदोहं शेते' इत्यादि । यावत्कालं व्याप्य ओदनपाकः क्रियते तावत्कालं शेते इति बोधात् क्रिययापि कालो लक्ष्यते, तदा किं भावग्रहणेन, कालग्रहणेन सिद्धत्वादित्याह - यद्यपीति ।