________________
कातन्त्रव्याकरणम्
कालं स्वपिति' इत्यत्रैव मुख्यकाले सफलः । यद्यपि गन्तव्य एवाध्वेति लोकप्रसिद्धिस्तथापि यदा गन्तव्यतया अध्वा धात्वर्थेन सह संबध्यते तदा कर्मसंज्ञा नान्यस्येति . सूचनार्थम् अध्वविशेषणं गन्तव्यपदम् उपात्तम् । तेन 'क्रोशमास्ते' इत्यस्यायमर्थ:यावता कालेन क्रोशो गम्यते तावन्तं कालमास्ते इति'।
यदा तु गन्तव्यतया न विवक्ष्यते तदा क्रोशस्यान्त इत्येव भवतीति न्यासः। 'कालाध्वभावा गन्तव्याः' इति पाठेऽध्वनो गन्तव्यतया विवक्षितत्वम् । अत्र श्रीपतिः - तप्रत्ययेऽसंज्ञं कालादि ध्रौव्यस्येति सूत्रमाचष्टे | तत्प्रत्यये कर्मप्रत्यये कर्तव्य एव कर्मसंज्ञेत्यर्थः । तेन 'कुरून् सुप्तः' इत्यत्र सत्यपि सकर्मकत्वेऽकर्मकत्वलक्षणः कर्तरि क्तप्रत्ययः सिद्धः । तथा ‘मासमासयति छात्रम्' इत्यत्रापि सकर्मकत्वात् कथम् अनिनन्तकर्तुः कर्मत्वमिति छात्रेणेत्येव स्यात् । कालादेरन्यत्र वा कथं कर्मत्वं न स्याद् उच्यते 'कुरून् सुप्तः' इत्यत्र प्रथमम् अकर्मकलक्षणः कर्तरि क्तप्रत्ययः पश्चाद् व्याप्यत्वविवक्षया कर्मत्वमिति न दोषः । यथा त्रिमुनिसंग्रहकारमते 'मासान् पच्यते' इत्यत्र भावे आत्मनेपदं निष्पाद्य पश्चाद् धात्वर्थकृतव्याप्यत्वाद् मासादेः कर्मणः प्रयोगः । न च “गत्यकर्मक०" (अ० ३।४।७२) इत्यत्राकर्मकग्रहणं सर्वथा अकर्मकत्वप्रतिपत्त्यर्थम्, यत्र पश्चादपि कर्म न विवक्ष्यते इति वक्ष्यति तस्य व्यावृत्तिस्तदेति वाच्यम् । यदर्थविशिष्टाद् धातोः प्रत्ययः प्रत्यासत्त्या तदर्थविशिष्टस्य कर्मत्वम्, यत्र पश्चाद् विवक्ष्यते तत्र व्यावृत्तिः । अत्र स्वपनार्थविशिष्टात् प्रत्ययो विहितस्तदर्थस्य नहि कुरूणां व्याप्यत्वम्, अपि तु प्राप्तिक्रियायाः कर्मत्वमिति न दोषः । किञ्च अकर्मकलक्षणः क्तः कर्तरि विधीयमानो यदर्थविशिष्टतया धातोरकर्मकत्वम्, तेनैवार्थेन यदि सकर्मकत्वं न विवक्ष्यते तदा निर्विरोधेन भवति ।इह स्वपनक्रियायां धातोरकर्मकत्वात् कर्तरि क्तप्रत्ययः सिद्धः । नहि स्वपनक्रियायाः कुरूणां व्याप्यत्वम्, किन्तु प्राप्तिक्रियाया इति भाव इति पुस्तकान्तरे पाठः।
१. दौर्गास्तु मन्यन्ते - एवंविधविषये धातोर्द्विधा वृत्तिः शयनादिमात्रे प्राप्तिविशिष्टशयनादौ च । तत्राद्ये - गम्यमानधात्वन्तरवाच्यक्रियाकर्मत्वे स्वपादेरकर्मकत्वात् कर्तरि क्ते 'कुरून् सुप्तः' । द्वितीये तु प्रापणस्यापि धातुवाच्यत्वात् कर्मकार्यं 'कुरवः सुप्यन्ते, कुरूणां स्वप्तः' इति कालादेरन्यत्र तु स्वपादेर्न विशिष्टवृत्तिः किन्तर्हि शयनमात्रे एव स्वभावादिति गोपीनाथः।