________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
८७ नित्यद्विकर्मकाणामिति भाषावृत्त्युक्तन्यायात् प्रकृतिविकृत्योर्युगपत् प्रत्ययो न साधुरेवेति । कुलचन्द्रस्यापि मतमेतत् । अन्ये तु यथा गौणे मुख्ये च कर्मणि द्वितीयाविधिस्तथा त्यादिविधिरपीति गौणमुख्यन्यायस्यानादरात् काशाः कटः क्रियन्ते इति द्वयोरेवोक्तत्वम् । तत्र च प्रकृतेरेव मुख्यत्वात् तस्या एव पुरुषवचनानि स्युरिति मन्तव्यम् । कटरूपेण काशा विपरिणमन्ते इत्यर्थवशेन कटादेर्विशेषणत्वेन गौणत्वमित्ययमेव पक्षो युक्तः । तथा च श्रीपतिः - "प्रकृति'विकृत्योः प्रकृतिवच्च" (कात० परि० का० ९५) इति सूत्रमाचष्टे- "तथायुक्तं चानीप्सितम्" (अ० १।४।५०) इति पाणिनिः। ___ अस्यायमर्थः। चकारोऽवधारणे, येन प्रकारेण कर्तुः क्रियया युक्तम् ईप्सिततमं कर्म भवति तेनैव रूपेणानीप्सितमपि तदभिन्नमपि तक्रियायुक्तं कर्मेत्यर्थः । तेन द्वेष्यम् अह्यादिकम् उदासीनं च वृक्षमूलादिकमपि व्याप्यमिति भावः । सर्वो हि धात्वर्थः करोत्यर्थेनाभिव्याप्तः इति । ननु यदि सर्वो हि धात्वर्थः करोत्यर्थेन व्याप्त इत्युच्यते ।
१. नात्र प्रसज्यप्रतिषेधेनेप्सितप्रतिपक्षोऽभिमतः । यन्न देश्यम्, नापीष्यमाणं तत्र कर्मत्वानुपपत्तेः । नापि पर्युदासेनेप्सितसदृशमभिप्रेतं सर्वथाऽनीप्सितानां विषकण्टकादीनां कर्मत्वाप्रसङ्गाद् उदासीनस्यैव तत्सदृशत्वात् । अतस्तदन्यतामात्रं नञर्थः । तेन द्वेष्यमुदासीनं च कर्मेति यत्राभ्यासार्थं क्रियामात्रे तात्पर्य तत्रानीप्सितत्वादुदाहरणं बोध्यमिति सागरः। यथा घटज्ञानार्थं घटं करोतीत्यत्रान्यघटस्यैव ईप्सितत्वाद् उत्पत्तिरूपफलशालिघटस्यानीप्सितत्वमेवेति कर्मत्वमित्यर्थः । अस्मन्मते फलस्योद्देश्यत्वेन विवक्षितत्वात् कर्मत्वमिति भावः। २. ननु तथापि स्तोकं पचतीत्यादौ सर्वधात्वर्थस्य कथं कर्मत्वम्, कथं वा तद् विशेषकर्मकार्यं स्यात् । यतः कर्मलक्षणे फलांशे धातुवाच्य इति विशेषणमस्ति । अत्र तु करोत्यर्थव्यापारजन्योत्पत्तिरूपफलस्य धातुवाच्यत्वाभावात्, नैवम् । यत्रानुकूलव्यापारे धातुवाच्यतास्ति, तत्र फलांशेऽपि धातुवाच्य इति विशेषणम् । एतेन भूमौ पर्णं पततीत्यादौ न कर्मत्वम् । यत्र तु व्यापारेण धातुवाच्यता, तत्र फलांशेऽपि धातुवाच्यविशेषणं नास्ति ।। __ अत्र तु करोत्यर्थव्यापारे धातुवाच्यत्वाभावे सति कर्मत्वं सिद्धमिति । ननु तथापि 'उपखार्यां द्रोणः' इत्यादौ कविराजेन यदुक्तं कथमत्र षष्ठीप्राप्तिः ।यावता खारीमधिरूढो द्रोणः इतिवत् तदर्थोपशब्दसंयोगे द्वितीयाप्राप्तेर्द्वितीयेत्येवं वक्तुं युज्यते ? सत्यम् । उपशब्दस्य क्रियार्थत्वाभावान्न कर्मत्वमित्येतत् कथं संगच्छते, यावता अध्यारोहणरूपव्यापारे उपशब्दवाच्यता, न धातुवाच्यता । ___ अत्र फलांशेऽपि धातुवाच्येति विशेषणं तदा नास्तीति ? सत्यम् । एवमुच्यते - यत्र व्यापारे कस्यचिद् वाच्यतास्ति । तत्र फलांशे धातुवाच्यतेति विशेषणम् । अत्र तु अध्यारोहणरूपव्यापारे उपशब्दवाच्यतास्ति अतो न दोषः । करोत्यर्थस्थलेऽपि करोत्यर्थव्यापारे धातुवाच्यता नास्ति, एवं प्रत्ययवाच्यतापि नास्ति । अतोऽत्र फलांशे धातुवाच्यविशेषणमपि नास्ति । अत उक्तदोषो निरस्तः । अत एव कविराजेनाप्युक्तम् - कारकबोधप्रत्ययतात्पर्यपरिप्राप्त एव करोत्यर्थः, न पुनः प्रत्ययवाच्य इति दिक।