________________
भूमिका
११
१३. [ निःसन्देहार्थम् ]
१. आदेशवादी त्वाह - इदमः प्रसङ्गे य इकारः स इदम् इत्युपचारान्न ज्ञापकम् “इतो लोपोऽभ्यासस्य' (३ । ३ । ३८) इति सवदिशं प्रति अर्थवशाद् विभक्तिविपरिणामोऽपि गरीयानिति तत्रग्रहणम् | आदेशाद् विभक्तिलोपो निःसन्देहार्थः (दु० टी०, क० च० २।६।२५ ) |
१४. [ बालावबोधार्थम् ]
१. . अनुष्टुब्बन्धेन समासस्तद्धितश्च विरचित इह बालावबोधार्थः । शब्दलाघवे न चिन्तनीयमिति ( दु० टी० २।५।६ ) | १५. [ शिष्यव्युत्पत्त्यर्थम् ]
१. प्रथमा द्विकपक्षे त्रिकपक्षे चैकवाक्यतामाश्रित्याह - तस्मादिति । शास्त्रान्तरेण विभक्तिविधानं शास्त्रान्तरेण तदर्थकथनमिति तु शिष्यव्युत्पत्त्यर्थमेव (क० च०
२।४।१७)।
१६. [ मङ्गलार्थम् ]
१. ननु वर्धनाद् वृद्धिरिति किमनया व्युत्पत्त्या ? सत्यम् । संज्ञात्वेन वृद्धेरेव प्रतिषेधो नाकारस्येति । वैयाकरण इत्यत्र प्रतिषेधनिमित्तो वृद्धिरागमो न स्यात् । यद्येवं वृद्धिग्रहणेनैवेदं । एवं सति मङ्गलार्थमिति कश्चित्
'
( वि० प० २ | ६ | ५० ) ।
कारक-समास-तद्धितविषयानधिकृत्य वृत्तिकार - टीकाकार- पञ्जिकाकारकलापचन्द्रकारैश्चतुर्भिर्व्याख्याकारैर्बहूनां ग्रन्थानां ग्रन्थकाराणां चाभिमतानि सिद्धान्ता विचाराश्चापि समादृताः सन्ति, तेषु कानिचिदभिमतानि नूनमेव विषयोत्कर्षादिरूपं वैशिष्ट्यं प्रकाशयन्ति । केचिद् विचारास्तेषामिहोद्धियन्ते यथोक्तवचनोल्लेखेन - १. गौणमुख्यन्यायप्रवृत्तिः
गौणेनेति तदन्तविधौ गौणमुख्यव्यवहारो नास्तीति तस्य शब्दाश्रयत्वादित्याह - अथवेति कुलचन्द्रः । तन्नेति महान्तः (क० च० २।४।१)।
अन्योऽन्यादिशब्देषु अमादेशविषयकाभिमतम्
अन्योऽन्येतरेतरपरस्पराणां स्त्रीनपुंसकयोरम् वेति केचिदाचक्षते । इमे स्त्रियावन्योऽन्यां भोजयतः, अन्योऽन्यं भोजयतो वा । - इमे स्त्रियावन्योऽन्यां