________________
कातन्त्रव्याकरणम्
प्रयच्छतः। - - - - - - - - इमे स्त्रियावितरेतरां भोजयतः, इतरेतरं वा भोजयतः (दु० टी० २।४।३)। ३. अभिव्यापकाधिकरणोदाहरणविषयिणी विविधाचार्यविचारप्रवृत्तिः
अन्ये तु अभिव्यापकशब्दवाच्यस्य तैलादेः सम्बन्धशालित्वात् तिलादिकमभिव्यापकमुच्यते इत्याहुः । यद्यपीत्यादि । पृथगुच्यते इति । औपश्लेषिकात् पृथगुच्यते । अभिव्यापकत्वेन व्यपदिश्यते इत्यर्थः । वस्तुतो घटे रूपमस्तीत्यादिकं मुख्यमभिव्यापकमुदाहर्तव्यम् । - - - - - - - - - दृष्टादृष्टपरमाणवस्तिलेषु संविशन्तीति यन्मतं तन्मतमवलम्ब्योक्तम् । अन्ये तु - - - - - - - दिवि देवा इत्युदाहरणम् । - - - - वस्तुतस्तु - - - - - - - - । वस्तुतो नेदमुदाहरणम्, किन्तु देवानामाकाशे एव स्थितिः प्रसिद्धा । (क० च० २।४।११)। ४. पूर्वादीनां दिक्त्वव्यवहारविचारो लोकोपचारादितः
इह पूर्वादीनां लोकोपचारेण दिक्संज्ञा सिद्धा, तेन 'स्वं रूपम्' इति न्यायान्न स्वरूपग्रहणम् इति भट्टनारायणादयः । तदस्मन्मते का गतिरित्याह - दिगित्यर्थपरोऽयं निर्देशः इति पञ्जी । अर्थपरनिर्देशेऽपि ऐन्द्रीप्रभृतयो न गृह्यन्ते, दिक्त्वप्रवृत्तिनिमित्ताभावात् । किन्त्वासां देवतात्वमेव प्रवृत्तिनिमित्तमिति कुलचन्द्रस्याशयः (क० च०२।४।२१)। ५. भागुरि-कुलचन्द्राचार्ययोरवाप्योरकारलोपोऽभिमतः अवाप्योरकारलोपो विभाषयेष्यते । यथा 'पिनद्धं वतंसः' इति । तदुक्तम् -
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।
टापं चापि हलन्तानां क्षुधा वाचा निशा गिरा ॥इति । अस्यायमर्थः - भागुरिराचार्योऽवाप्योरकारलोपं वष्टि इच्छति न त्वन्यः । - - - कुलचन्द्रस्यापि मतमेतद् इत्युभयप्रामाण्याद् विकल्पः सिद्धः (क० च० २।४।२३)। ६. "तादर्थं चतुर्थी" इति सूत्रविषयकमभिमतम्
न खल्वेतच्छर्ववर्मकृतसूत्रमस्तीति ? - - - - - - । अत्र तु वृत्तिकृता मतान्तरमादर्शितम् । इह हि प्रस्तावे चन्द्रगोमिना प्रणीतमिदमिति (वि० प० २।४२७)।