________________
कातन्त्रव्याकरणम्
७. [मन्दमतिबोधनार्थम्]
१. ननु प्रतिना योगेऽत्र द्वितीया बाधिकेति किमिदं प्रत्युदाहृतम् ? सत्यम् । मन्दमतिबोधार्थमेव (दु० टी० २।४।३२)।
२. यद्येवं द्विग्वव्ययीभावयोनपुंसकलिङ्गविधानमनर्थकं स्वभावादेव सिद्धेरिति चेत्, मन्दमतिबोधनार्थकम् (क० च० २।५।१७)। ८. [विशिष्टार्थप्रतिपत्त्यर्थम् ]
१. ननु यदि प्रयोक्त्रपेक्ष्यमेव विशेषणमत्र गृह्यते तदा लक्षण इत्येवास्ताम्, किं विशेषण इति गुरुकरणेन ? सत्यम् । गुरुकरणं विशिष्टार्थप्रतिपत्त्यर्थम् (क० च० २।४।३२)। ९. [प्रतिपत्तिगौरवनिरासार्थम्]
१. अभिविधिरपि मर्यादाविशेषः । आघाटोऽपि मर्यादाविशेषः । ‘आ पाटलिपुत्राद् वृष्टो देवः' इत्युक्ते पाटलिपुत्रस्यावधिरेव गम्यते । ननु किमर्थमिदं सर्वत्र बुद्धिकृतापायस्य विद्यमानत्वात् पञ्चमी सिद्धैव ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमेव (क० च० २।४।४०)। १०. [उत्तरार्थम्]
१. ननु सर्वसादृश्याद् यस्य प्रत्ययत्वं विभक्तित्वं च संभवति तस्यैव भविष्यति, किं विभक्तिग्रहणेन ? सत्यम् । व्याप्तिन्यायात् प्रत्ययमात्रस्यापि ग्रहणं संभाव्यते इति । वस्तुतस्तु उत्तरार्थमेव विभक्तिग्रहणमित्युक्तमेव (क० च० २।४।१)। ११. [विवक्षार्थम्]
१. तदस्यास्तीति मन्त्वन्त्वीन् । तदिति प्रथमान्तादस्यास्तीत्यस्मिन्नर्थे ‘मन्तुवन्तु-विन्-इन्' इत्येते प्रत्यया भवन्ति । गावो विद्यन्तेऽस्येति गोमान् । एवम् आयुष्मान् - - - - - मायावी । इति शब्दोऽत्र विवक्षार्थः (दु० वृ० २।६।१५)। १२. [समासलाभार्थम्]
१. यद् वा अव्ययीभावग्रहणखण्डनपक्षेऽन्तग्रहणं न सुखार्थम्, किन्त्वकार एवान्तो यस्येति समासलाभार्थम् (क० च० २।४।१)।