________________
५७८
कातन्त्रव्याकरणम्
८७. नञ्तत्पुरुषस्योत्तरपदवत् ___ नञ्तत्पुरुषस्योत्तरपदवत् कार्यं भवति । अनेको ब्राह्मणः । करेणुः प्रस्थितानेकः । ‘अनेकस्य चकाराजौ बाणैर्वाणस्य खण्डनम्' । यदा तु विजातीयानामर्थानां प्रत्येकमनेकत्वं विवक्ष्यते तदा वचनान्तरमिच्छन्ति । धवश्च खदिरश्चोभावनेकौ । धवश्च खदिरश्च पलाशश्च प्रत्येक मनेक तया इमे अनेके | ‘धवखदिरपलाशा:' इत्यत्र तु द्वन्द्वार्थबहुत्वेऽनेकशब्दप्रयोग एव नास्त्यनेकत्वस्य द्वन्द्वादेवाधिगतेः । अनेकस्याधिकरणादप्येकवचनमेव प्रमाणम् । अबल्वजाः काशः, अनप्सरसो युवतिः, अवर्षाः हेमन्तः, अस्त्री भ्रुकुंशः । अमित्र इति प्रकृत्यन्तरं नञि अमित्रमिति स्यादेव । उक्तव्यत्यये तु शिष्टोक्त्या साधुत्वमिच्छन्ति । उक्तं हि वृद्धस्तत् - अनुग्रहश्च शिष्टेभ्यः इति । शिष्टास्तु इह मुनयः, न हि अंप्रमाणं ते भाषन्ते ।। ८७।
८८. विशेष्यवदेकाधिकरणस्य प्रायेण भिन्नप्रवृत्तिनिमित्तमेकार्थप्रयुक्तमेकाधिकरणं तस्य प्रायेण विशेष्यवत् कार्यम्भवति । अर्थाद् विशेषणस्य । दूराय ग्रामाय व्रजति, दूरं ग्रामं व्रजति, स्थूलेन वृषलेन कर्तव्यम्, स्थूलस्य वृषलस्य कर्तव्यम् । तुल्यार्थेऽपि न पृथग् विभक्ती । तथा वरणा गोमत्यः, दारा गोमन्तः, गोदौ बहुशस्यौ । प्रायेणेति किम् ? वरणादिवचनं नगरादेर्मा भूत् । वरणा नगरम्, गोदौ ग्रामः, बल्वजास्तृणम्, रेवती दाराः । सामान्ये विशेषस्य विशेषणतेष्यते । यथा मेरुमहीभृदिति । 'गोदौ रमणीयो ग्रामः' इति ग्रामविशेषणत्वात् । एकाधिकरणे विशेषणे नपुंसकैकत्वमपि प्रमाणम् । शक्यमोषधिपतेः कराः । 'शक्यं श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' (म० भा०) इति । उपात्तेऽपि विशेष्ये सामान्याश्रयत्वात् 'वेदाः प्रमाणम्' इति भाष्यस्थितिः । नियतलिङ्गानामसम्भवे व्यत्ययः । शेषो यवागूः, शेषं यवागूः । अझै भाण्डम्, अर्धं शिखा, सम्बाधः शाला, संबाधो वर्त्म, संबाधं बृहदपि तद् बभूव वर्त्म' इति च पठन्ति । प्रकाण्डं युवतिः, आदिः कलत्रम्, गुणः प्रधानम्, उपसर्जनं स्त्री । सम्भवे तु शेषं दधि, शेष ओदनः । 'तयात्मानं च शेषाश्च विद्याः पायान्महीपतिः' इत्यपि प्रयुक्तमेकः । प्रमाणशब्दस्तु साधनव्युत्पन्नो द्विधा । एको नपुंसकं प्रमाणं दृक्, प्रमाणं शब्दः । अन्यश्चान्यलिङ्गः प्रमाणः स्वामी, प्रमाणी स्त्री, प्रधाना हरितां मुद्गाः' इत्यादिदृष्टे: प्रधानशब्दस्यापि द्वयी गतिरिति लक्ष्यते । बहुचपूर्वस्य स्वलिङ्गतैव ।