________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
૪૬૨
देशादिति किम् ? गोमया क्रिमयः । नृसंज्ञकाच्च वा । देवदत्तीयाः, दैवदत्ताः । भोगदत्तीयाः, भौगदत्ताः । त्यदादिभ्यश्च । त्यदीयः, तदीयः, किमीयः, भवदीयः इति, दकारश्च वर्णविकारः । वर्गान्ताच्च । कवर्गे भवः कवर्गीयः । एवं पवर्गीयः । किमिह योगविभागेन रूढिशब्दा हि तद्धिता एवमर्थे वर्तन्ते इति || ३७६ ।
[वि० प० ]
ईयस्तु । तुशब्द इह योगविभागार्थ इत्याह- योगविभागादित्यादि । आच्च वृद्धिश्च आवृद्धी ते विद्येते यस्येति स आवृद्धिमान् । स्वराणां मध्ये य आदौ आकारवान् वृद्धिमांश्च शब्दस्तत इत्यर्थः । शेषे उक्तादन्यस्मिन्नर्थे तस्येदमित्यादिलक्षण एवेत्यर्थः ।। ३७६ । [क० च०]
ईय० । वत्सेभ्य इति । तस्मैग्रहणमन्तरेण कथमिह चतुर्थी लभ्यते ? सत्यम् । हितशब्दोऽयमुपकारार्थ इति तादर्थ्यमपेक्षते । सम्बन्धविवक्षायामपि भवत्येव । वत्सस्य हितो वत्सीयः । राज्ञे हितम्, आचार्याय हितम्, ब्राह्मणाय हितमिति वाक्यमेवाभिधानात् । एवम् अन्येऽपीति | त्यदादिभ्यश्च त्यदीयः, तदीयः, किमीयः, भवदीय इति तस्य दकारश्च वर्णविकार इति । तेन न यस्वरे प्रत्यय इति पदत्वनिषेधे प्राप्ते भवतो दश्चेति न वाच्यम् | वर्गान्ताच्च । कवर्गे भवः कवर्गीयः इत्यादि । किमिह योगविभागेन रूढिशब्दा हि तद्धिता इति । युष्मदस्मदोरीनणू युष्माकास्माकौ युष्माकमयं यौष्माकीणः, युष्मदीयः । आस्माकीनः, अस्मदीयः । अण् च - यौष्माकम्, आस्माकम् । तावेकत्वेऽण्-तवकममकौ च । तावीनः, तावकीनः, तावकः । मामीनः, मामकीनः, मामक इति कुलचन्द्रः || ३७६ । [समीक्षा]
कातन्त्र तथा पाणिनीय व्याकरण में एतद्विषयक प्रायः समान निर्देश प्राप्त हैं । पाणिनि का सूत्र है - " तस्मै हितम्" (अ० ५/१/५) | अन्तर केवल यह है कि पाणिनीय व्याकरण में साक्षात् 'छ' प्रत्यय का विधान है, उसको "आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्' (अ० ७/१/२ ) से ईयू आदेश उपपन्न होता है, जबकि कातन्त्रकार ने 'ईय' प्रत्यय का ही साक्षात् निर्देश किया है ।