________________
१०८
कातन्त्रव्याकरणम्
सत्यम् । मन्दमतिबोधनार्थ एव चकार इति । क्रियानिमित्तम् इत्यादि । क्रियानिमित्तमात्रं प्रधानम् अप्रधानं वा यतः क्रिया भवति, तत् क्रियानिमित्तमिति भावः । करोतीति कारकमिति व्युत्पत्तिपक्षेऽपि तथा स्वभावान्नपुंसकम् । यथा करोतीति कारणम्, अत आह - "अकर्तरि च कारके संज्ञायाम्" (४।५।४) इति ||३००।
[वि० प०]
कारयति० । इह कर्तेत्यनुवर्तते । तच्च प्रथमान्तमप्यर्थवशाद् द्वितीयान्तमित्याह - तमेवेति । 'हारयति, पावयति' इति । प्रेषणाध्येषणे कुर्वन् खलु हेतुर्भवति । तत्र भृत्यादराज्ञापूर्वको व्यापारः प्रेषणम् । गुवदिश्च सत्कारपूर्वको व्यापारोऽध्येषणमिति । हरति भृत्यः, पुनाति गुरुः। तमन्यः प्रयुङ्क्ते इति हेतुसंज्ञायां "धातोश्च हेतौ" (३।२।१०) इतीन् । ननु कथम् अपादानादि कारकम् इहोच्यते, न ह्येतदर्थं सूत्रमस्तीति । मा भूत्, को दोषः इति चेद्, उच्यते – “अकर्तरि च कारके संज्ञायाम्" (४।५।४) इत्यादिषु कारकव्यवहाराभावादित्याह - क्रियानिमित्तमित्यादि । कारकशब्दोऽयम् अव्युत्पन्नो निमित्तपर्यायः स्वभावान्नपुंसकलिङ्गः । यत् क्रियानिमित्तमात्रं प्रधानम् अप्रधानं वा तत् कारकमुच्यते । यस्तु करोतीति कारक इति वुण्प्रत्ययान्तः कारकशब्दः कर्तृपर्यायः, स च वाच्यलिङ्गः। यथा कारकः पुरुषः, कारिका स्त्री, कारकं कुलम् | नासावपादानादिषु वर्तते, तस्य प्रधानस्यैव कर्तुर्वाचकत्वादिति ।। ३००।
[क० च०]
कार० । प्रेषणाध्येषणे कुर्वन्नित्यादि । ननु यदि आज्ञापूर्वको व्यापारः प्रेषणम्, तदा ‘हारयति भृत्यं देवदत्तः' इत्यत्र भृत्यस्यैव हेतुसंज्ञा स्यात् । स्वाम्याद्याज्ञापूर्वकव्यापारे भृत्यस्यैव कर्तृत्वात् ? सत्यम् । भृत्यादेरिति कर्तरि षष्ठी । ततश्च भृत्यकर्तृको यो व्यापारस्तस्याज्ञया विशिष्टीकरणम् प्रेषणम् । ततश्च 'सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामतः' (का० परि० २) इति न्यायाद् आज्ञाविशिष्टीकरणस्य कर्ता प्रयोजको देवदत्तादिरेव । यद् वा प्रेषणाध्येषणे कुर्वन्नित्यत्र अन्तर्भूतेनार्थतया कारयन्नित्यर्थः।
___ यद् वा भृत्यादेरिति कर्मणि षष्ठी ।व्यापार इति व्यापारणा |इनन्तस्य रूपमिदम् । एवं च सति भृत्यादिकर्मकव्यापारणा प्रेषणमिति । तच्च प्रयोजकेनैव क्रियते, एवं