________________
५२१
नामचतुष्टयाप्याये पष्ठस्तद्धितपादः प्रकारैर्गच्छति सर्वथा गच्छति । सर्वेभ्यः प्रकारेभ्यो बिभेति सर्वथा बिभेति । येन प्रकारेण ददाति यथा ददातीति ।
___ 'था' इति बहुवचनं वेति व्युत्पत्तिवादिपक्षमाश्रित्य उच्यते, वाशब्देनैतत् सूचितम् । रूढिशब्दा हि तद्धिता इत्यर्थः । इत्यादिबहुवचनान्ता गणस्य संसूचका इति थादय इत्यर्थः । तेन संख्यायाः प्रकारे धा इति । द्वाभ्यां प्रकाराभ्यां द्वौ वा प्रकारौ करोतीति द्विधा करोति । एवं बहुधा करोति, बहुशब्दात् थापवादो धा प्रतिपत्तव्यः । प्रकारः पुनरिह क्रियाविषय एव ग्रहीतव्यः । यदि गुणद्रव्यविषयो गृह्यते धाप्रत्ययस्य लिङ्गसंख्याभ्यां योगः स्यात् । कथं नवधा द्रव्यम्, बहुधा गुण इति ? सत्यम्, अत्रापि क्रिया अध्याहर्तव्या उपदिश्यते, तस्मात् तसादिविषयमप्यव्ययो न्यायात् । एकस्यानेकीकरणसंख्यान्तरापादनं तस्मिन् गम्यमाने धा भवत्येव । राशिं पञ्चप्रकारं करोति, पञ्चधा करोति |पञ्चप्रकारेणैकप्रकारं करोति, एकधा करोति । 'षोढा, षड्धा' इति षस्य डत्वं प्रतिपत्तव्यम् । द्वित्रिभ्यां धमुण् एधा चेति - द्वैधं भुङ्क्ते, त्रैधं भुङ्क्ते । एवं द्वेधा, त्रेधा, द्विधा, त्रिधा । एकाद ध्यमुण् वेति । ऐकध्यं करोति, एकधा करोति । बहुशब्दात् थापवादो मन्तव्यः । बहुधा करोति ।।४०४।
[वि०प०]
प्रकारशब्दः सादृश्यार्थो विशेषार्थश्च । यथा देवदत्तप्रकाराः, देवदत्तसदृशा इत्यर्थः । ब्राह्मण इति सामान्यम्, तस्य प्रकारा माथुरा विशेषा इत्यर्थः । अत्र सादृश्ये वतिप्रत्ययस्य विधानाद् विशेष इह प्रकार इत्याह - सामान्यस्येत्यादि । वाक्यार्थेत्यादि । विशेषविभक्तिनिर्देशस्याभावादित्यर्थः । था' इति बहुवचनं वेति | इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्तीति । थादयः प्रत्यया इत्यर्थः । वाशब्दो रूढिवशात् तद्धित एवमर्थे वर्तते इति सूचयति । तेनेत्यादि । चतुर्भिः प्रकारैश्चतुरो वा प्रकारान् करोति, चतुर्धा करोति, पञ्चधा करोति, बहुधा करोति । बहुशब्दात् थापवादो धा इति मन्तव्यः । द्वित्रिभ्यां धमुण् एधा चेति । द्वैधं भुङ्क्ते, एवं द्वेधा त्रेधा भुङ्क्ते । चकाराद् धा च - द्विधा, विधा, । एकाद् ध्यमुण् वेति- ऐकध्यम् । पक्षे एकधा ।। ४०४।
[क० च०]
प्रकार० । प्रकारस्योक्तिः प्रकारवचनम्, तच्च प्रकृतिविशेषणम् । सर्वनाम्नो बहोश्च प्रकारवचने वर्तमानात् थाप्रत्ययो भवति स्वार्थ इत्यर्थः । वचनग्रहणं छन्दोऽर्थम् ।