________________
५२०
कातन्त्रव्याकरणम्
अपरेयुः। अपरस्मिन्नहनि । अपर + एद्युस् + सि । अधरेयुः। अधरस्मिन्नहनि । अधर + एद्युस् + सि | उत्तरेयुः ।उत्तरस्मिन्नहनि । उत्तर + एद्युस् + सि । उभयेयुः । उभयस्मिनहनि । उभय + एद्युस् + सि । पूर्ववत् प्रक्रिया |
१५. उभययुः । उभयस्मिन्नहनि । उभय + युस् + सि | निपातन से घुस् प्रत्यय तथा विभक्तिकार्य ।। ४०३।
४०४. प्रकारवचने तु था [२।६।३८] [सूत्रार्थ] ट्यादिभिन्न सर्वनामसंज्ञक शब्दों से प्रकार अर्थ में था' प्रत्यय होता है ।। ४०४ | [दु० वृ०]
सर्वनाम्नोऽव्यादेः प्रकारवचने तु थाप्रत्ययो भवति । सामान्यस्य भेदकः प्रकारः । सर्वेण प्रकारेण सर्वथा । एवं यथा, तथा, अन्यथा । वाक्यार्थवशेन सर्वविभक्तिभ्यो ज्ञेयः । 'था' इति बहुवचनं वा । तेन संख्यायाः प्रकारे धा - द्विधा, त्रिधा, चतुर्धा पञ्चधा, षड्धा । द्वित्रिभ्यां धमुण् एधा च - द्वैधम्, त्रैधम् द्वेधा, त्रेधा । एकाद् ध्यमुण् वा - ऐकध्यम्, एकधा ।। ४०४।
[दु० टी०]
प्रकार० । सप्तम्याः काल इति निरस्तम्, व्यवहितविधानात् । प्रकारशब्दो विशेषार्थः सादृश्यार्थश्च । यथा 'ब्राह्मणः' इति सामान्यम्, तस्य विशेष्या माथुरादयः । रूपमिति सामान्यम्, तस्य विशेषाः शुक्लादयः । प्रकारो यथा देवदत्तप्रकाराः सदृशा इति । इहु तु विशेषार्थ इत्याह - सामान्येत्यादि । प्रकारस्योक्तिः प्रकारवचनम्, तच्च प्रकृतिविशेषणम् । सर्वनाम्नो बहोश्च प्रकारवचने वर्तमानात् थाप्रत्ययो भवति स्वार्थे । वचनग्रहणमन्तरेण प्रत्ययविशेषणमपि स्यात् । नैवम्,यःप्रकृत्यनवस्थितोऽर्थः प्रत्ययेनोच्यते स प्रत्ययार्थः । यथा वशिष्ठस्यापत्यं वाशिष्ठ इति । इह तु सर्वनाम्नो बहोश्चानियतमभिधेयं तौ विशेषमापद्यमानौ नियताभिधेयौ भवतः । तर्हि वचनग्रहणं सुखप्रतिपत्त्यर्थमेव | यद्येवम्, द्योतकेऽपि थाप्रत्यये कथं यथाप्रकारस्तथाप्रकार इति ? सत्यम् । स्वरूपाविर्भावनपर एव प्रकारशब्दो लोके प्रयुज्यते । न कदाचिदिह श्रुता विभक्तिरस्तीत्याह - वाक्यार्थवशेनेत्यादि । तद् यथा-सर्वान् प्रकारान् भुङ्क्ते सर्वथा भुङ्क्ते । सर्वैः