________________
७२
कातन्त्रव्याकरणम्
- [दु० टी०]
यत् । करोतेरर्थः क्रियाव्यापारः । स च सर्वधातुस्थितस्तथा चाह - क्रियाभावो धातुरिति । कर्तारमन्तरेण क्रिया न सम्भवतीत्याह - क; यत् क्रियते इति । भेदे पुनरयमर्थः- कर्तुः क्रियया यद् व्याप्यते इति । कथं पुनरेतल्लभ्यते । क्रियया पूर्वकालभाविन्या यदप्राप्तं प्राप्यते तत् साधनं कर्मेति । आख्यातं हि क्रियाप्रधानम् । क्रियाया एव कर्मसंज्ञा स्यात् । अथ क्रियाया अमूर्तायाः कर्मत्वमनुपकारकम् इति क्रियानिमित्तस्य साधनस्य भवतीह प्रत्ययनिर्देशाच्चानुमीयते । अन्यथा क्रिया कर्मेति विदध्यात् । न्यायस्तु वस्तुतः पदमात्रे क्रियायाः प्राधान्यम्, वाक्ये फलपदसंबन्धे तूपकारिका क्रिया, उपकार्यं च फलमिति । यदिति फलपदमिह निर्दिश्यते। तच्च कर्म त्रिविधम् - निर्वर्त्यम्, विकार्यम्, प्राप्यं च । अन्यः पुनराह - बहुप्रकारमपि -
निर्वयं च विकार्यं च प्राप्यं चेति त्रिधा मतम् । तत्रेप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम् ॥
औदासीन्येन यत् प्राप्तं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं कर्म यच्चान्यपूर्वकम् ॥
(वा०प०३।७।४५,४६) इति । तदेतद् बहुप्रकारमपि अन्तर्भावेन वृत्तौ दर्शितम् । प्राप्तिस्तु बहुप्रकारा। यथा, कटं करोति । संयोगं जनयतीति अभूतप्रादुर्भावलक्षणा। कर्तृव्यापारेण कटादेः स्वरूपप्रतिलम्भात् ततः स्वरूपप्रतिलम्भ एव निवर्त्यकर्मणो व्याप्तिः । सांख्यादिसत्त्वाददर्शनेऽप्याविर्भावस्य शक्त्यवस्थायामभावाद् अपूर्वोत्त्पत्तिरेव । विकार्ये तु विकारोत्पत्तिलक्षणा काशान् कटं करोति काशद्रव्याणां कर्तृक्रियासन्निवेशविशेषतो विक्रीयमाणत्वाद् विकारप्रापणमत्र व्याप्तिः। एवं तण्डुलानोदनं पचतीति । अन्यस्त्वाह - ओदनशब्दस्तण्डुलवृत्तिरूपस्तण्डुलान् पचतीत्यर्थः । अथवा तण्डुलान् विकारयन् ओदनं निवर्तयतीति स्वभावाद् व्यर्थः पचिः । विकार्यं तु-काष्ठं भस्म करोतीति सुवर्ण कुण्डलं करोतीति
यदसज्जायते पूर्व जन्मना यत् प्रकाशते। तन्निर्वयं विकार्य च कर्म द्वेधा व्यवस्थितम् ॥