________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत् । किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥
७३
( वा० प०३ । ७ । ४९,५०) ।
ग्रामं गच्छतीत्यादौ प्राप्ये कर्मणि संयोगलक्षणया गतिक्रियया ग्रामस्य प्राप्यमाणत्वात् । भारं वहतीत्यादावपि अभिमतदेशं प्राप्यमाणो भारः कर्तृव्यापारेणोढो व्यवस्थाप्यते इति। अत्रापि संय़ोगलक्षणैव प्राप्तिस्तदर्थक्रियारम्भाद् युक्तमेतत् सर्वत्र कर्तुः क्रियया स्वरूपं विकारः संबन्धो वा विषयस्य क्रियते इति । कथम् 'आदित्यं पश्यति, घटम् उपलभते, रूपं परिच्छिनत्ति, गन्धमनुभवति, हिमवन्तं शृणोति, विज्ञेयं जानाति' इति तत्संज्ञाहेतोः प्राप्तेरभावात् । न हि दर्शनादिभिः सूर्यादयः प्राप्यन्ते । किन्तु तैर्विषयभूतैर्दर्शनादयः प्राप्यन्ते तैस्तेषां संजननात् कारणं च विषयः पूर्वम् उत्तरकालं तु कार्यभूता ज्ञानादयः । एतदुपकारकास्तु सूर्यादयो ज्ञानाद्यर्था न सूर्याद्यर्थाः क्रिया इति कथं क्रियया प्राप्यन्ते । न च दर्शनादिभिर्विषयभावापत्तिः प्रागसती सूर्यादीनामतिशयरूपा क्रियते । यत इन्द्रियैरर्थस्य सम्बन्धगमनं विषयभावापत्तिस्तच्च प्रागेवोत्पद्यते । ततो दर्शनादयो ज्ञायन्ते इति ? सत्यम् । चक्षुः प्रेरणं द्रष्टुः क्रिया, तया च विषयः प्राप्यते । चक्षूरश्मयो विषयदेशं यान्ति । दृशिवाच्यं न चक्षुः प्रेरणं ज्ञानवचनत्वाद् दृशेरिति चेत्, नैवम् । तादर्थ्यात् पूर्वकालभावी द्रष्टुर्व्यापारो दृशिनोच्यते । यथा पचिना अधिश्रयणादय इति । चक्षुः प्रेरणपूर्वकं वा दृशिर्ज्ञानम् अभिधत्ते इति । तस्मात् क्रियानिमित्तमेतत् ।
अन्यः पुनराह -
क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते ।
दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते ॥ ( वा० प० ३ । ७ । ५१) ।
यथा निर्वर्त्यविकार्ययोरतिशयः क्वचित् प्रत्यक्षविषयः काष्ठं दहतीति । क्वचिदनुमानगम्यो देवदत्तं रोषयति प्रसादयति वेति । मुखवर्णानुमेयत्वाद् रोषादेरिति । प्राप्तिमात्रस्तु प्राप्यमिति भावः । आदित्यं पश्यतीत्यादावाभासमुपगच्छति । सूर्यो यतो दृश्यते अभिव्यक्तिमुपयाति यतो व्यक्तमुपलभ्यते सहते दर्शनं शक्यते द्रष्टुमित्याह -
1