________________
७४
कातन्त्रव्याकरणम्
आभासोपगमो व्यक्तिः सोढत्वमिति कर्मणः। विशेषाः प्राप्यमाणस्य क्रियासिद्धौ विवक्षिताः॥
(वा०प० ३।७।५३) इति कारकत्वम् । एवं 'गुडं भक्षयति, पयः पिबति, ओदनं भुङ्क्ते' इत्यादि पूर्वकालभाविनोऽपि व्यापारा अभावहाराङ्गभूतास्तादर्थ्याद् भक्षिशब्दवाच्यास्तैश्च गुडादिकं प्राप्यते इति । अन्यस्त्वाह - गुडादिकं प्रीत्यर्थं भक्ष्यते, भक्षितं च प्रीतिं जनयति । भक्षणेन प्रीतिजननयोग्यो गुडादिनिर्वय॑ते विक्रियते प्राप्यते वेति विविधमेतत् कर्म युज्यते । भक्षणं च तथाविधं गुडाद्यर्थं भवतीत्यदोषः । तथेत्यादि । अहिर्लङ्घनक्रियया व्याप्यते इत्यनीप्सितमपि कर्म स्यात् । यन्नैवेप्सितं नाप्यनीप्सितम्, तदपि ग्रामं गच्छतो वृक्षमूलोपसर्पणप्रसङ्ग इति । क्रियाविशेषणानामपि कर्मता नपुंसकता एकता च, न्यायात् सर्व एव धात्वर्थः करोत्यर्थेन व्याप्तः । स्तोकं पचति । स्तोकं पचनं करोतीत्यर्थः । क्रियाया अमूर्ताया लिङ्गसख्याभ्यामयोगात् तद्विशेषणस्य कथं लिङ्गसंख्ये इति नपुंसकत्वमेकवचनं तु उत्सर्गतया भवत्येव । यथा कटं करोति । विपुलमुदाहरणं दर्शनीयमिति । गुणयुक्तस्यापि व्याप्यता सिद्धा । प्रत्येकं करोत्यभिसंबन्धात् तदभिव्यक्तये द्वितीया योज्यैव । कथं तर्हि कृतः कटः, उदारो दर्शनीय इति ? सत्यम् । करोतेरुत्पन्नया निष्ठया सर्वं कर्माभिहितम् इत्यर्थमात्रे प्रथमैव । यथा पच्यते ओदनः , प्राप्तमुदकं यं स प्राप्तोदको ग्राम इति । शतेन क्रीतः शत्यः शतिकः पटः इति। 'उक्तार्थानामप्रयोगः कृत्त्यादितद्धितसमासेषु न्यायसिद्धः' इति । उपयुज्यमानं पयःप्रभृतिकं कर्म तस्य निमित्तस्य गवादेरपादानादित्वेनानाख्यातस्य दुहादिक्रियासंबन्धे ब्रुविशास्योश्च प्रधानसाधनकर्मादिके कथमित्याह - तथेत्यादि ।
यत् क्रियते तत् कर्मेति सामान्यविधानाद् व्याप्तिरिति । अजां नयति ग्राममिति द्विकर्मकतयैव हेत्वर्थस्य द्योतितत्वाद् इन् न भवति अधिपूर्वाः शीङ्स्थासोऽपि सकर्मका एव । अभिनिपूर्वो विशतिश्च । तथा उपान्वध्यावसतिरप्युदाहरति । कथं कल्याणेऽभिनिवेशः । संज्ञा संज्ञिन्यभिनिविशत इति विवक्षया भवति । तथा दिवः करणस्य कर्मत्वं न वाच्यम् इत्याह - अक्षानित्यादि । तथा कालाध्वभावदेशानां सर्वे धातवः सकर्मकाः इति कालाध्वनोरत्यन्तसंयोगे इति न वक्तव्यम् । तर्हि यत्रैव क्रियाव्याप्तिस्तत्रैव स्यात्, न गुणद्रव्ययोाप्तौ । तद् यथा - 'मासमधीते, मासमास्ते,