________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
७५ क्रोशमधीते, क्रोशं शेते, ओदनपाकं शेते, गोदोहमास्ते, कुरून् स्वपिति, नदी स्वपिति' इति विताह - भवतेर्गम्यमानत्वादिति । गम्यमानार्थो भवतिः, तया क्रियया व्याप्यते इति भावः । यथा-प्रविश पिण्डीम्, प्रविश तर्पणम्, भक्षय पिबेति गम्यते । आसनादिपूर्विकायां प्राप्तौ आस्यादीनाम् इह विषये वृत्तत्वात् । तथा चाह -
कालावभावदेशानामन्तर्भूतक्रियान्तरैः।
सर्वैरकर्मकोंगे कर्मत्वमुपजायते ॥ (वा०प०३।७।६७)। कश्चिदाह - कालाध्वभावदेशानां विभाषया अकर्मणां योगे नित्यं कालाध्वनोरत्यन्तसंयोगे । यथा - मासे आस्ते इत्यादि । एवमपि विवक्षया सिद्धम् । मासेनानुवाकोऽधीयते इति । करणे एव तृतीया । मासमधीतोऽनुवाको न चानेन गृहीत इति नात्र करणत्वम् असाधकतमत्वात्, किं फलसिद्धौ तृतीयाविधानेन । अद्य भुक्त्वा देवदत्तो ट्यहाद् भोक्ता इति परयोगभावनया अवधिविवक्षया वा पञ्चमी । व्यहे भोक्तेति व्यहसमीपोऽपि दिवसो व्यह इत्यधिकरण एव सप्तमी । इहस्थोऽयम् इष्वासः क्रोशाद् विध्यति लक्ष्यम्, कोशे विध्यतीति । तथा च लोके विवक्षया अपायोऽधिकरणं चेति किं कारकयोर्मध्ये यौ कालाध्वानौ ताभ्यां पञ्चमीसप्तम्योर्विधानेनेति । एकाद्यभुजेः साधनं शक्तिरन्या ट्यहेऽतीते तत्रैका इष्वसने अथवा व्यधन इति कारकयोर्मध्ये तां प्रतिपद्यते । तथा गतिबुद्ध्याहारशब्दार्थकर्मकाणां प्रयोज्यः कर्ता हेतुकर्तृव्यापारेण व्याप्यत्वात् कर्मैव | गमयति ग्रामं माणवकम् । प्रापयति ग्राम माणवकम् । बोधयति धर्मं माणवकम् । भोजयति माणवकम् ओदनम् । आशयति माणवकम् ओदनम् । अध्यापयति माणवकं वेदम् । पाठयति माणवकं वेदम् । आसयति देवदत्तम् । शाययति देवदत्तम् !
यदा गमयति देवदत्तं यज्ञदत्तम्, तमपरः प्रयुङ्क्ते, तदा गमयति देवदत्तं यज्ञदत्तेन विष्णुमित्रेणेति भवितव्यम् । गमयतेरगत्यर्थत्वाद् अन्येषां तु प्रयोगे सत्यपि हेतुकर्तृव्यापारव्याप्यत्वेऽन्तर्भूतकर्तृत्वस्यैव विवक्षा | यथा पाचयत्योदनं देवदत्तेनेति । व्यभिचारोऽपि विवक्षायाः । 'अयाचितारं नहि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक' (कु० सं० १।५३) इति ग्रहेरन्यत्रापि दृश्यते । जल्पति छात्रो द्रव्यम्, जल्पयति छात्रं द्रव्यम् । आलापयति मित्रं छात्रः । आलापयति मित्रं छात्रम् । संभाषते छात्रो भार्याम् । संभाषयति छात्रं भार्याम् इत्यादयः । नयतिखादति - अत्तिह्वयतिशब्दायक्रन्दीनां च ।