________________
कातन्त्रव्याकरणम् नाययति देवदत्तेन, खादयति देवदत्तेन, आदयति देवदत्तेन, शब्दाययति देवदत्तेन । शब्दक्रियायां शब्दायधातुस्तत इन् । क्रन्दयति देवदत्तेन । वहेरसारथिकर्तरि । वाहयति भारं देवदत्तेन । सारथिकर्तरि तु वाहयति बलीवर्दान् शस्यम् । भक्षेरहिंसार्थस्य - भक्षयति पिण्डी देवदत्तेन । हिंसार्थस्य तु - भक्षयति गां शस्यम् ।
चेतनावन्तः सर्वे भावा इति दर्शनेन शस्यभक्षणेन यस्य हि तत् शस्यं स हिंस्यते वा | मतान्तरे - हरतिकरोत्योरुभयविवक्षा । हारयति भारं देवदत्तम्, देवदत्तेनेति वा ।
ओदनं परिपूर्णान् शिष्यान् विकारयति, शिष्यैर्वा । दृश्यभिवाद्योरात्मनेपदविवक्षायां 'दर्शयते भृत्यान् राजा, भृत्यैरिति वा । आत्मानमभिवादयते गुरुर्देवदत्तम्, देवदत्तेनेति वा। अभिवादयन्तं प्रयुङ्क्ते इतीन् । वादिरयं घान्तश्चौरादिक इति अन्ये । आत्मनेपदविवक्षायामिति किम् – दर्शयति चित्रं छात्रं देवदत्तेनेति । अभिवादयति गुरुं माणवकेनेत्यफलवत्कर्तृत्वादिह परस्मैपदमिति ।
परो ब्रूते - विवक्षेव श्रेयसीति। यथा - पयसौदनं भुङ्क्ते । सत्यपि व्याप्यत्वे करणत्वं सिद्धम् । दुहादीनां द्विकर्मकाणां गवादौ कर्मणि अप्रधानेऽप्यात्मनेपदविधिः, अभिधानात् । गौर्दुह्यते पयः । पौरवो गां याच्यते । गर्गाः शतं दण्ड्यन्ते इति । नयतिवहतिहरतीनां च प्रधान एव-अजा नीयते ग्रामम् । उह्यते भारो ग्रामम् । ह्रियते भारो ग्रामम् । कृषेरपि दृश्यते । कर्षति ग्रामं शाखाम् । कृष्यते ग्रामं शाखा देवदत्तेन । गत्याद्यर्थानाम् इनन्तानां शिष्टप्रयोगानुसारेणोभयत्रापि | गमयति ग्रामं देवदत्तम् । गम्यते देवदत्तो ग्रामम् | गम्यते ग्रामो देवदत्तम् । बोधयति माणवकं धर्मम् । बोध्यते धर्मो माणवकम् । बोध्यते माणवको धर्मम् । एवं यावद् आसयति मासं देवदत्तम् । आस्यते मासं देवदत्तः, आस्यते मासो देवदत्तम् । अपरः पुनराह-दुहादीनां गवादयः प्रधानं कर्म, कर्मपूर्वकत्वात् पयस इति | अपर आह - गुणकर्मणि लादिविधिः । पूर्वं गुणकर्मणा भवति योगः । मुख्यं कर्म प्रेप्सुर्यस्माद् गव्येव यतते प्राक् तस्मात् शुद्धस्य दुहेर्भवति गवा पूर्वमेव संबन्धः । गोर्दुहिना पयसस्तु प्रत्येकं तस्माल्लादयस्तस्मिन्निति ।।२९८ ।
[वि० ५०]
यत् क्रियते० । क; यत् क्रियते इति कर्तारमन्तरेण क्रिया न संभवतीति क.त्युच्यते । अयं चाभेदे वाक्यार्थः । भेदे पुनरेवम् - कर्तुः क्रियया यत् क्रियते यद् व्याप्यते तत् कर्म । कथमेतद् यावता क; हि क्रिया क्रियते तत् तस्या एव कर्मसज्ञा