________________
॥श्रीः॥
परिशिष्टम् -३ श्रीदुर्गसिंहप्रणीतानि तमादिगणसूत्राणि
[आख्याताच्च तमादयः २।६।४०] १. आख्यातकिमेकारान्ताव्ययेभ्यः क्रियागुणप्रकर्षवृत्तिभ्यः
एव तरां तमाम् आढ्यतरः, आढ्यतमः ।प्रकृष्ट आन्य उच्यते निपातनस्येष्टविषयत्वात् । तथा पचतितराम्, पचतितमाम्, किन्तराम्, किन्तमाम्, पूर्वाह्नेतराम्, पूर्वाह्नतमाम्, उच्चस्तराम्, उच्चस्तमाम् ।।१।
२. तथा गुणादिष्ठेयन्सू वा गुणाद् गुणवाचकाच्छब्दाद् इष्ठेयन्सू वा भवतः । पटिष्ठः, पटीयान् । पटुतरः, पटुतमः । गरिष्ठः, गरीयान् । गुरुतरः, गुरुतमः । गुणादिति किम् ? प्रकृष्टाग्निः ।।२।
३. प्रकर्षे रूपश्च प्रकृष्टवाचकात् प्रकृते रूपप्रत्ययो भवति । प्रकृष्टं पचति पचतिरूपम् । प्रकृष्टं गच्छति गच्छतिरूपम् । प्रकृष्टो बभूव बभूवरूपम् । प्रकृष्टो भविष्यति भविष्यतिरूपम् । प्रकृष्टो वैयाकरणः वैयाकरणरूपः । एवमन्येऽपि । प्रकृष्ट इति किम् ? ग्रामं गच्छति । नात्र प्रकृष्टार्थता ग्रामगमनमात्रार्थः ।।३।
४. ईषदसमाप्तौ कल्पदेश्यदेशीयाः ईषदसमाप्तौ गम्यमानायां प्रकृतेः कल्पदेश्यदेशीया भवन्ति । पटुकल्पः, पटुदेश्यः, पटुदेशीयः । एवमन्येऽप्यनुसर्तव्याः। ईषदसमाप्ताविति किम् ? प्रकृष्टो भवति भवतितराम् ।।४।
५. कुत्सितवृत्ते म्न एव पाशः नाम्नः कुत्सितवृत्तेः पाशप्रत्ययो भवति । कुत्सितो वैयाकरणः वैयाकरणपाशः । कुत्सितो देवदत्तः देवदत्तपाशः । कुत्सितः शाब्दिकः शाब्दिकपाशः । कुत्सितवृत्तेरिति किम् ? शोभनो वैयाकरण : वैयाकरणतरः ।। ५ ।