________________
६५६
कातन्त्रव्याकरणम्
६२. स्वतिभ्यां पूजायां प्राग् बहुव्रीहेः
[२० च० टी०]
आभ्यां राजादिशब्दादत्प्रत्ययो न भवति पूजायां बहुव्रीहिभिन्नसमासे । शोभनो राजा सुराजा । अतिशयो राजा अतिराजा । सुगौः, अतिगौः । स्वतिभ्यामिति किम् ? परमराजः। पूजायामिति किम् ? अतिक्रान्तो राजानम् अतिराजः । बहुव्रीहेः प्रागिति किम् ? शोभनं सक्थ्यस्य सुसक्थः ।। ६२ । ६३. नञस्तत्पुरुषे
[२० च० टी०]
नञस्तत्पुरुषे राजादिशब्दादप्रत्ययो न भवति । न राजा अराजा । एवम् असखा । तत्पुरुष इति किम् ? अनृचो माणवकः । न विद्यते धूर्यस्य अधुरं शकटम् || ६३ ६४. पथो वा
[२० च० टी०]
नञस्तत्पुरुषे पन्थिशब्दादद् भवति वा । नायं पन्थाः अपथम्, अपन्थाः । तत्पुरुष इति किम् ? न विद्यते पन्था यस्य अपथोऽयं देश ः || ६४ | ६५. धेन्वनडुहादयश्च
:
[२० च० टी०]
धेन्वनडुहांदयो निपात्यन्ते । धेनुश्च अनड्वांश्च धेन्वनडुहौ । ऋक् च यजुश्च ऋग्यजुषम् | अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् इत्यादि ।। ६५ ।
|| इत्याचार्यदुर्गसिंहप्रणीतानां राजादिगणसूत्राणामाचार्यरलेश्वरचक्रवर्तिविरचिता वृत्तिः समाप्ता ॥