________________
६५५
परिशिष्टम् -२
५७. नसुव्युपत्रिभ्यश्चत्वार [र० च० टी०]
एभ्यश्चत्वार्शब्दादद् भवति बहुव्रीहौ समासे । नास्य चत्वार्यक्षीणि विषयीणि भवन्ति - अचतुरः । शोभनान्यस्य चत्वार्यक्षीणि विषयीणि भवन्ति सुचतुरः ।विविधान्यस्य चत्वार्यक्षीणि विषयीणि भवन्ति । विचतुरः । चत्वारि इन्द्रियाणि समीषे एषाम् उपचतुराः । त्रयो वा चत्वारो वा परिमाणमेषां त्रिचतुराः ।। ५७।
५८. संज्ञायां नाभिः [२० च० टी०]
बहुव्रीहौ समासे नाभिशब्दादद् भवति संज्ञायाम् । पद्मं नाभावस्य पद्मनाभः । एवं वज्रनाभः । संज्ञायामिति किम्? पद्येन नाभिः पद्मनाभिः ।।५८।
५९. नसुदुर्थ्यः सक्थि वा [र० च० टी०]
एभ्यः सक्थिशब्दादद् भवति वा बहुव्रीहौ समासे । न विद्यमानं सक्थ्यस्य असक्थः, असक्थिः । सुसक्थः, सुसक्थिः । दुःसक्थः, दुःसक्थिः । राजादिराकृतिगणोऽयम् ।। ५९।
६०. संख्याया अबहोरन्त्यस्वरादिलोपश्च [र० च० टी०]
बहुशब्दवर्जितायाः संख्याया बहुव्रीहौ वर्तमानाया अद्भवति,अन्त्यस्वरादिलोपश्च । पञ्च षट् परिमाणमेषां पञ्चषाः । उपगता दश एषाम् उपदशाः । अबहोरिति किम् ? उपबहवः । तथा आकृतिगणत्वादेव ।।६०।
६१. न किमः क्षेपे [२० च० टी०]
निन्दायां यः किम् - शब्दस्तत्पराद् राजादेरत्प्रत्ययो न भवति । कुत्सितो राजा किंराजा, यो न रक्षति प्रजाः । क्षेप इति किम् ? केषां राजा किंराजः ।।६१।
J