________________
६५८
कातन्त्रव्याकरणम्
६. भूतपूर्ववृत्तेश्चरट् भूतः पूर्वो भूतपूर्वः, तत्र वृत्तिर्यस्यासौ भूतपूर्ववृत्तिः, तस्माद् भूतपूर्ववृत्तेम्निश्चरड् भवति । टकारो नदाद्यर्थः । भूतपूर्व आढ्य आढ्यचरः, आढ्यचरी । भूतपूर्ववृत्तेरिति किम् ? ईषदसमाप्त आढ्यकल्पः ।।६।
७. षष्ठ्यन्ताद् भूतपूर्वाभिधेये रूप्यश्च षष्ठ्यन्तान्नाम्नो भूतपूर्वाभिधेये रूप्यप्रत्ययो भवति । चकाराच्चरडपि । देवदत्तस्य भूतपूर्वो गौः देवदत्तरूप्यः । देवदत्तचरः, देवदत्तचरी | षष्ट्यन्तादिति किम् ? देवदत्ताद् भूतपूर्वा भीतिः । भूतपूर्वाभिधेय इति किम् ? देवदत्तस्य गौः ।।७।।
८. बह्वल्पार्थात् कारकाच्छस् वा मङ्गले गम्यमाने बहुश्च अल्पश्च बह्वल्पौ तयोरों बह्वल्पार्थः, तस्माद् बह्वल्पार्थात् । बह्वर्थाद् अल्पार्थाच्च कारकान्मङ्गले गम्यमाने शस्प्रत्ययो भवति वा । बहु देहि बहुशो देहि | प्रभूतं देहि प्रभूतशो देहि ! अल्पं देहि अल्पशो देहि । स्तोकं देहि स्तोकशो देहि । अन्यत्र न भवति - गां देहि । कारकादित्येव-बहूनां स्वामी, अल्पानामीश्वरः । मङ्गल इति किम् ? बहूनि दुःखानि देहि ।।८।
९. संख्यैकार्थाभ्यां वीप्सायाम एकोऽर्थो यस्येत्येकार्थः । संख्या च एकार्थश्चेति द्वन्द्वः । इहापि कारकादिति वर्तते । संख्यावाचकादेकार्थाच्च वीप्सायां गम्यमानायां शस्प्रत्ययो भवति । पृथग्योगादत्र विकल्पनिवृत्तिः । द्वौ द्वौ देहि द्विशो देहि । कार्षापणं कार्षापणं देहि कार्षापणशो देहि | कुडवं कुडवं देहि कुडवशो देहि । पादं पादं देहि पादशो देहि । संख्यैकार्थाभ्यामिति किम् ? मासौ मासौ देहि । वीप्सायामिति किम् ? द्वौ देहि, कार्षापणं देहि । कारकादिति किम् ? द्वयोर्द्वयोः-स्वामी ।।९।।
१०. कतिगणवन्तूनां संख्यावत् . कतिश्च गणश्च वन्तुश्च कतिगणवन्तवः, तेषां कतिगणवन्तूनाम् । संख्याया इव संख्यावत् । यथा संख्यावाचकाद् वीप्सायां शस् विधीयते , तथा कतिशब्दात्, गणशब्दात्, वन्तुप्रत्ययाच्च शस् भवति वीप्सायाम् । कति कति देहि कतिशो देहि । गणं गणं देहि गणशो देहि । तावन्तं तावन्तं देहि तावच्छो देहि । कतिगणवन्तूनामिति किम् ? पुनः पुनर्देहि । वीप्सायामिति किम् ? कति देहि ।।१०।