________________
परिशिष्टम् - ३
११. वारस्य संख्यायाः कृत्वस्
स्वस्थानस्थितशब्दस्य पुनरर्थानुसन्धानमावृत्तिः, आवृत्तिलक्षणक्रियायाः प्रवृत्तिलक्षणः कालो वारः । वारस्य सम्बन्धिन्याः संख्यायाः कतिगणवन्तूनां च कृत्वस्प्रत्ययो भवति । पञ्च वारान् भुङ्क्ते पञ्चकृत्वो भुङ्क्ते । शतं वारान् भुङ्क्ते शतकृत्वो भुङ्क्ते वाराणां वा शतं भुङ्क्ते । एवं कति वारान् भुङ्क्ते कतिकृत्वो भुङ्क्ते । एवं गणकृत्वः, तावत्कृत्वः । वारस्य संख्याया इति किम् ? ऋषीणां शतं पश्यति || ११ | १२. बहोरविप्रकर्षे धा च
६५९
अविप्रकर्षः सान्निध्यम् । अविप्रकर्षे वर्तमानाद् बहुशब्दाद् वारस्य संख्याया धाप्रत्ययो भवति, कृत्वस् च । बहून् वारान् भुङ्क्ते दिवसस्य बहुधा, बहुकृत्वः । बहोरिति किम् ? शतं वारान् भुङ्क्ते । अविप्रकर्ष इति किम् ? बहुकृत्वो मासस्य भुङ्क्ते || १२| १३. द्वित्रिचतुर्भ्यः सुच्
द्वित्रिचतुर्भ्यो वारस्य संख्यायाः सुच्-प्रत्ययो भवति । द्वौ द्वौ वारौ भुङ्क्ते द्विर्भुङ्क्ते । त्रीन् वारान् भुङ्क्ते त्रिर्भुङ्क्ते । चतुरो वारान् भङ्क्ते चतुर्भुङ्क्ते । द्वित्रिचतुर्भ्य इति किम् ? पञ्च वारान् भुङ्को चकृत्वः ।।१३। १४. प्रस्तुतवृत्तेर्मयट्
प्रस्तुतवृत्तेः प्रकृतेर्मयट्प्रत्ययो भवति । टकारो नदाद्यर्थः । अन्नं प्रस्तुतम् अन्नमयम्। यवागूः प्रस्तुता यवागूमयी । प्रस्तुतवृत्तेरिति किम् ? प्रकृष्टा यवागूः यवागूतराम् ।। १४ ।
१५. प्रकृतेर्विकारेऽवयवे वा भक्षाच्छादनयोः
I
भक्षश्च आच्छादनं च भक्षाच्छादने, न भक्षाच्छादने अभक्षाच्छादने तयोः । प्रकृतेर्विकारेऽवयवे वा मयट्प्रत्ययो भवति । वाऽत्र समुच्चये, न तु भक्षाच्छादनयोः । अश्मनो विकारोऽवयवो वा अश्ममयम् । भस्ममयम्, सुवर्णमयम्, लौहमयी । अभक्षाच्छादनयोरिति किम् ? मुद्गस्य विकारो मौद्गः सूपः । कार्पासस्य विकारोऽवयवो वा कार्पासमाच्छादनम् | मयटा अण् न बाध्यते, अश्मनो विकारोऽवयवो वा आश्मः । एवं भास्मः । " नस्तु क्वचित्" (२/६/४५) इति नलोपः ।। १५ ।