________________
६६०
कातन्त्रष्याकरणम्
१६. एकस्वरान्नित्यम् एकस्वरात् शब्दान्नित्यमयड् भवति ।वाङ्मयम्, त्वङ्मयम्, मृन्मयम् । एकस्वरादिति किम् ? पटोर्भावः पटुत्वम् ।।१६।
१७. अभूततद्भावे कृभ्वस्तिषु विकाराच्चिः अभूतस्य अजातस्य तदात्मना भावोऽभूततभावः । अयमर्थः- अवस्थावतोऽवस्थान्तरेणाभूतस्याजातस्य तदात्मना तेनैव स्वरूपेण भावे (विकारस्वभावेन जन्मनि) कृभ्वस्तिभिर्योगे विकारवाचिनः शब्दाच्च्चिप्रत्ययो भवति । अशुक्लं शुक्लं करोति शुक्लीकरोति । अशुक्लः शुक्लो भवति शुक्लीभवति । अशुक्लः शुक्लः स्यात् शुक्लीस्यात् । अवस्त्रं वस्त्रं भवति - वस्त्रीभवति । एवमन्येऽपि । अभूततद्भाव इति किम् ? घटं करोति, घटो भवति, घटः स्यात्, कृभ्वस्तिष्विति किम् ? अशुक्लः शुक्लो जायते । विकारादिति किम् ? प्रकृतेर्मा भूत्-सुवर्णं कुण्डलं करोति ।।१७।
१८. अर्मनश्चक्षुश्चेतोरहोरजोभ्यः कृतसलोपेभ्यः एवायं विधिः
तमादिनिपातनस्येष्टविषयत्वात् कृतसलोपेभ्यः एभ्यः कृभ्वस्तिषु च्चिप्रत्ययो भवति । अनरुः अरुः करोति अरूकरोति, एवम् अरूभवति, अरूस्यात् । उद्गतं मनो यस्य स उन्मनाः। अनुन्मनसम् उन्मनसं करोति उन्मनीकरोति । एवम् उन्मनीभवति, उन्मनीस्यात् । अनुच्चक्षुषम् उच्चक्षुषं करोति उच्चर्करोति । एवम् उच्चर्भवति, उच्च भूस्यात् । अविचेतसं विचेतसं करोति विचेतीकरोति । एवं विचेतीभवति, विचेतीस्यात् । एवं विरहीकरोति, विरजीकरोति । एवमन्येऽपि । एभ्य इति किम् ? अपयः पयः करोति । कृभ्वस्तिष्विति किम् ? अनरुः अरुर्जायते ।। १८।
१९. अभिव्याप्तौ सम्पद्यतौ च सातिर्वा अभिविधिरभिव्याप्तिस्तस्यामेकदेशेन सर्वात्मना वा गम्यमानायां सम्पद्यतौ कृभ्वस्तिषु च प्रकृतेः सातिर्भवति वा । पक्षे च्चिरपि । वर्षासु लवणमुदकं सम्पद्यते उदकसात् सम्पद्यते, वर्षासु लवणमुदकं करोति उदकसात् करोति । वर्षासु लवणमुदकं स्याद् उदकसात् स्यात् । पक्षे उदकीकरोतीत्यादि । एवमन्येऽपि ।। १९ ।