________________
३२२
कातन्त्रव्याकरणम् पूर्वाचार्यप्रसिद्धा एव संज्ञिनो गृह्यन्ते न तु सामान्येनेति । यद् वा इतिशब्दस्य प्रसिद्धार्थत्वादेव पूर्वाचार्यप्रसिद्धानां संज्ञिनां लाभ इति । ननु पाणिनिना तद्धितार्थविषय एव समासं कृत्वा पश्चादुत्पन्नस्य तद्वितस्य लोपार्थं "लुगनपत्ये" (अ० ४ । १।८८) इत्यादिसूत्राणि विहितानि । अस्मन्मते तद्धितादेर्लोपाभावात् कथं सिध्यतीत्याह - एकापीत्यादि। अर्थवशादिति एकस्याः सप्तम्या विवक्षितार्थस्याघटनादित्यर्थः। एतेनाधारोऽत्राविशेषणसप्तम्या अर्थो विवक्षितः न तु विशेषणसप्तम्या ः स च स्वभावान्नानाविध इति । तेन क्वचिदभिधेये, क्वचिद् विषयभूते, क्वचित् परतः इत्यर्थः सिद्धो भवति । तथा च सति यत्र यत्र पराते लुगस्ति, तत्रास्मन्मतेऽभिधेये । यत्र च लुक् नास्ति, तत्र विषयभूते समासोऽयमिष्यते इति । एतदेव विवृणोति- तद्धितार्थे विषयभूते इत्यादि । अपत्येकणादिवर्जितस्येति- ननु द्वे काण्डे परिमाणमस्या 'द्विकाण्डी रज्जुः' इति । व्यञ्जनादितद्धितस्याभिधेयेऽपि समासे मात्र प्रत्ययस्यादर्शनात् कथं स्वरादितद्धितस्येत्युक्तम् ।
अत्र कुलचन्द्रः ‘नदादेराकृतिगणत्वादेवात्रापि परिमाणाविहितमात्रटप्रत्ययो नेष्यते' इत्याचष्टे । अन्ये तु स्वरादितद्धित इत्युपलक्षणमित्याहुः । अपत्येकणादीनां पुनरर्थे विषयभूत इत्यादि-ननु कथमिदं यावता याढकीत्यत्र तद्धितार्थे समासे सति ‘इकण्' न भवतीति टीकाकृता नदादिसूत्रे व्याख्यातमिति ? सत्यम्। इकणो वर्जनमपि प्रायिकमेवेति बोध्यम् । ननु पाणिनिना तद्धितार्थोत्तरपदसमाहारेषु दिसंख्ययोः कर्मधारयं विधाय संख्यापूर्वः कर्मधारयो द्विगुरित्युक्तम्। तेन पञ्च गावो धनमस्येति त्रयाणां पदानां पूर्व बहुव्रीहिं विधाय पूर्वपदयोरुत्तरपदे परे कर्मधारयः इति तन्मते सर्वमुपपद्यते। अस्मन्मते तु बहुव्रीहिषिये कथं कर्मधारयः स्यादित्याह- अन्तरङ्गत्वादिति। परोऽपि बहुव्रीहिरन्यपदार्थमितत्वाद् बहिरङ्ग इति कृत्वा स्वार्थमात्राधितत्वेनान्तरङ्गः कर्मधारयो वहुव्रीहिं बाधित्वा प्रथमतः प्रवर्तते, बहुव्रीहिस्तु पश्चादिति । नन्वेवं सति चित्रा गातो धनमस्येति वाक्ये (चित्रागोधन - इत्यत्रपि) अन्तरङ्गत्वात् कर्मधारयसंज्ञया "गौरतद्धिताभिधेये" (२।६।४१-२) इत्यत्प्रत्यये 'चित्रगवधनः' इति प्रयोग : स्यात् ? सत्यम् । 'अवयवसिद्धेः समुदायसिद्धिर्बलीयसी' (व्याः परि० पा० १०८) इति न्यायात् समुदायाश्रितबहुव्रीहिसंज्ञाविधावबाधितकर्मधारयज्ञा नास्तीत्याभ्युपगम्यते । किन्वत्रोत्तरपदं द्विगुसंज्ञाविधानतानथ्यांत त्रिपदबहुब्राहिविपर्य क्वचित् कर्मधारयनज्ञापि भवतोति ज्ञायते . स च हायकस्य लक्ष्यानुसारित्वाद् दिक्पूर्वसंख्या पूर्वे एव त्रिपदबहुब्राही ज्ञाप्यत इति।