________________
कातन्त्रव्याकरणम्
प्रत्ययस्थत्वात् षत्वं सिद्धं परिष्करोतीत्याख्यातिकेनैव साध्यते ? सत्यम् | आगमग्रहणमिह मन्दधियां सुखप्रतिपत्त्यर्थमेव । सेरिकारः उच्चारणार्थः । नुविसर्जनीयषैरन्तरो बहिर्भूतः। अन्तरशब्दोऽत्र बहिर्योगे । करणे चेयं तृतीया । नुविसर्जनीयषा अन्तरेSस्येति मध्यवचनो वाऽत्रान्तरशब्दः । मध्यत्वं तु निमित्तापेक्षमेव ।
२२०
""
सुपीः ष्वित्यादि । “रप्रकृतिरनामिपरोऽपि ” (१।५।१४ ) इति रत्वे वा पश्चाद् “ईरूरौ” (२।३।५२) इत्यनेन वाशब्देन “नामिपरो रम् (१।५।१२ ) इति पक्षं प्रमाणीकृत्य पक्षान्तरं दर्शितमिति । 'सर्पिष्षु, धनुष्षु' इति । ननु किमर्थं षान्तरवचनं विसर्जनीयान्तरत्वात् षत्वे कृते पश्चात् पररूपं षत्वं भविष्यति ? सत्यम् । षत्वविधेश्च पररूपविधिरन्तरङ्ग इति विकारस्थत्वात् षत्वे कृते षान्तरत्वात् षत्वं न स्यादिति । नामि पर इति किमर्थम् ? मालासु सोमपासु । 'प्रत्ययविकारागमस्थः' इति किमर्थम् ? बिसं मुसलम् । अपिशब्दस्येत्यादि । श्रङ्गुलीषङ्ग इति । अङ्गुलीनां सङ्ग इति विग्रहः । अङ्गुलीनां सङ्गो यस्मिन्निति भिन्नाधिकरणो वा बहुव्रीहि: - 'अङ्गुलीषङ्गो वायुः' एवं सर्वत्र यथासंबन्धं समासः ।
,
'अग्नीषोमी' इति । " अग्नेः सोमवरुणयोर्देवताद्वन्द्वे" ( द्र०, कात० परि० ष० ५) ह्रस्वस्य दीर्घता । दीर्घादिति किमर्थम् ? अग्निर्ज्योतिः, सोमश्च लता - अग्निसोमौ । " ज्योतिरायुर्थ्यां च स्तोमस्य " (कात० परि० ष० ७ ) इति चकारेणाग्निरनुकृष्यते । तथा समासे मातृपितृभ्यां स्वसुः - मातृष्वसा, पितृष्वसा । "अलुकि वा” (मातुः पितुर्भ्याम् - कात० परि०, ष० १० ) - पितुःष्वसा पितुःस्वसा । मातुःष्वसा, मातुःस्वसा । “अभिनिष्टानो वर्णे" (कात० परि०, ब० ११) । विसर्जनीयस्येयं संज्ञा । अन्यत्र अभिनिस्तानो मृदङ्गः। "नदीष्णनिष्णातौ कौशले” (कात० परि० ष० १२) । नद्यां स्नातीत्यधिकरणेऽप्यभिधानात् कप्रत्ययः । नदीष्णो निष्णातः कटकरणे । कौशलादन्यत्र नदीस्नः, निस्नातः । प्रतिष्णातं सूत्रं चेत्, प्रतिस्नातमन्यत् । प्रष्ठोऽग्रगामी चेत्, प्रस्थोऽन्यः । “वेः स्त्रश्छन्दोनामैकदेशे” । विष्टारपङ्क्तिश्छन्दः । “गवियुधिभ्यां स्थिरस्य संज्ञायाम्" (कात० परि०, ष० ८ ) - गविष्ठिरः, युधिष्ठिरः । सप्तम्याश्चालुक् । कपिष्ठलो गोत्रं चेत् । कपिस्थलमन्यत् । “विकुपरिशमीभ्यः स्थलस्य" । (कात० परि०ष० १६)- विष्ठलम्, कुष्ठलम्, परिष्ठलम् । शम्याः स्थलं ‘शमिष्ठलम्' । ह्रस्वः क्वचिदिति “अम्बाम्बगोभूमिद्धित्रिकुशेकुशङ्क्वगुमञ्जिपुजिबर्हिर्दिव्यग्निभ्यः स्थस्य” (कात०
-