________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
परि० ष० १७ ) - अम्बाष्ठः, अम्बष्ठः, गोष्ठः, भूमिष्ठः, द्विष्ठः, त्रिष्ठः, कुष्ठः, शेकुष्ठः, शङ्कुष्ठः, अगुष्ठः, मञ्जिष्ठा, पुञ्जिष्ठः, बर्हिष्ठः, दिविष्ठः - सप्तम्याश्चालुक् । अग्निष्ठः । “निमित्तादककारादेकारे सस्य संज्ञायाम्" ( द्र०, कात० परि० १० २८ ) हरिषेणः, वायुषेणः । अककारादिति किम् ? विष्वक्सेनः । एकार इति किम् ? हरिसिंहः । संज्ञायामिति किम् ? पृथुसेनो राजा । “नक्षत्रादिकारान्ताद् वा" (कात० परि०, ष० १९ ) - रोहिणिषेणः, रोहिणिसेनः । ह्रस्वः क्वचिदिति । " सुषामादयश्च" (कात० परि०, ष० २० ) - शोभनं सामास्येति सुषामा । निर्गतः साम्नो निःषामा । सुषेधः । सोः पूजायामपि षत्वम् । निर्गतो दुर्गतः सेधोऽस्येति 'निःषेधो दुःषेध:' इति सिधिना योगाभावादुपसर्गता नास्ति । सुसन्धानं सुसन्धिः, दुःसन्धानं दुःसन्धिः । अपद्युसुभ्यः स्थस्य कुरौणादिकः । अपष्ठुः, दुष्ठुः, सुष्ठुः । गौर्याः सक्थि गौरिषक्थम् । राजादित्वादत्, ह्रस्वत्वं च । " सुबिनिदुर्भ्यः समस्य" (कात० परि०, ष० ३८, ३९ ) - सुषमम्, विषमम्, निःषमम्, दुःषमम् | सव्येष्ठा सारथिश्चेत् । सप्तम्या अलुक् । अपष्ठः परमष्ठः, परमेष्ठीति । समासराशेर्नित्यत्वात् सिद्धषत्त्वा एवामी समासशब्दाः । उदाहरणप्रपञ्चस्तु मन्दधियां सुखार्थं दर्शितः । अपिशब्दविषयास्तु “हस्वात् तादौ तद्धिते" (कात० परि०ष० २२) । वपुष्टरम्, वपुष्टमम् । नामिनः परस्यानव्ययसकारस्य पाशकल्पकाम्यकेषु । सर्पिष्पाशम्, धनुष्पाशम्, यजुष्पाशम् । सर्पिष्कल्पम्, यजुष्कल्पम् । सर्पिष्काम्यति, धनुष्काम्यति, यजुष्काम्यति । सर्पिष्कम्, धनुष्कम्, यजुष्कम् ।
,
२२१
निर्दुर्बहिराविसां सस्य कपवर्गयोः । नैष्कुल्यम्, नैष्पुरुषम्, दुष्कृतम्, दौष्पुरुषम्, निष्कृतम्, निष्पीतम् । बहिष्करोति, बहिष्फलम् | आविष्करोति, आविष्फलम् । तथा चतुरोऽपि अनव्ययविसृष्टत्वात् सकारे सति - चतुष्कम्, चतुष्फलम् । “सुच्प्रत्ययस्य वा” | द्विष्करोति, द्विः करोति । द्विष्पचति, द्विः पचति । " इसुसोः सम्बन्धार्थे” । सर्पिष्पिबति, सर्पिस्पिबति । धनुष्करोति, धनुस्करोति । संबन्धार्थे इति किम् ? तिष्ठतु सर्पिः पयः पिबतु । अनुत्तरपदयोस्तु समासे नित्यम् । सर्पिष्करणम्, सर्पिष्पानम्, धनुष्करणम्, धनुष्पानम् । अनुत्तरपदयोरिति किम् ? परमसर्पिः कुण्डिका, परमधनुःफलम् । विकल्पषत्वमपि न भवति ।। ३३२ ।
[वि० प० ]
नामि० । सुपी:ष्वित्यादि । सुष्ठु पेषति, सुष्ठु तोषतीति क्विप् । वाशब्दोऽत्र भिन्नक्रमे “रप्रकृतिरनामिपरोऽपि " (१।५।१४ ) इत्यनेन पूर्वमेव नामिमात्रं निमित्तमाश्रित्य "नामिपरो रम्” (१।५।१२ ) इत्यनेन वा रत्वे सतीति पक्षान्तरं दर्शितम् ।