________________
नामचतुष्टयाध्याये पञ्चमः समासपादः अर्थसमुच्चये द्वन्द्वस्यासम्भवात् तद्वाचिनामेव द्वन्द्वसंज्ञाफलभागितेति निर्गलितार्थे 'राजपुरुषः' इत्यत्र तत्पुरुषस्योत्तरपदार्थप्रधानत्वेन पुरुषस्य वाचकत्वान्नास्ति नामार्थस्य समुच्चय इति ।
ननु ‘राजपुरुषः' इत्यत्र राजपुरुषशब्दाभ्यां राजार्थपुरुषार्थयोरुपस्थापितत्वेन तयोः समुच्चयः केन वार्यताम् ? सत्यम्, समुच्चयो हि साहित्यम्, तच्च युगपदेकक्रियान्वयित्वमिति मीमांसकाः। ततश्च 'राजपुरुषमानय' इत्यत्र राजशब्देन सहानयनादिक्रियायाः संबन्ध एव नास्तीति । यद् वा नाम्नोरिति शब्दपरोऽयं निर्देशः । ततश्च यत्र समासे नाम्नां यः समुच्चयः एकक्रियान्वयित्वं स द्वन्द्वो भवतीति सूत्रार्थे 'राजपुरुषः' इत्यत्रापि नास्ति द्वन्द्वसंज्ञाप्रसङ्ग इति । ननु चार्थे द्वन्द्वः इति । ननु "चार्थे द्वन्द्वः" (अ० २/२/२९) इति पाणिनिः। चार्थश्च समाहारः इतरेतरयोगश्चान्वाचयशिष्टश्च । तत्रान्वाचयशिष्टे न भवतीत्यग्रे पञ्जीकृता युक्तिर्वक्ष्यते । अस्मन्मते चार्थग्रहणाभावे समाहार इतरेरयोग इति विशेषः कथं लभ्यते इत्याशयेनाह - नन्वित्यादि । न चानयोरपीति समुच्चयोधर्मविशेषश्च वाच्यत्वेनानयोरितरेतसमाहाराभिधानसमस्यमानपदकदम्बयोर्विद्यत इति । एतेन इतरेतरयोगः समाहारश्च समुच्चय उच्यते इत्याशयेन वृत्तावितरेतरयोगः समाहारश्च समुच्चयस्यैव भेदः इत्युक्तमिति । समाहारश्च संहतिप्रधान इति समस्यमानपदकदम्बार्थसंहतिः समाहारस्तत्प्रधानत्वात् । पदकदम्बोऽपि समाहार उच्यते इति भावः । __अथ यत्रैव समुच्चयः प्रतीयते स एव द्वन्द्व इत्युक्ते इतरेतरसमाहारातिरिक्ते समुच्चये द्वन्द्वः कथन्न स्यादित्याह - यस्त्वित्यादि | प्राधान्येनेति । प्राधान्यं तु इतरपदार्थनैरपेक्ष्येण प्रत्येकमेकक्रियान्वयित्वम् । पञ्जीपङ्क्तेस्तु यः प्राधान्येन समुच्चयस्तत्र समासो न भवतीति परेणान्वयः। प्रधानसमुच्चयमेव विवृणोति - क्वचिदित्यादि । अनेकेषां समुच्चीयमानतेति । अत्रापि प्राधान्येनेत्यस्यान्वयो बोद्धव्यः । धवखदिरपलाशा इत्यत्र तु सर्वेषामेकदैवैकक्रियान्वयित्वमिति भेदः । “चार्थे द्वन्द्वः" (अ० २/२ | २९) इति पाणिनिसूत्रेऽन्वाचयस्यापि चार्थत्वात् तन्मते तत्रापि समासः स्यादिति चार्थग्रहणस्य संकोचदर्शनाद् दूषयति । अन्वाचयस्त्वित्यादि । अस्य विषयो यथा देवदत्तो यज्ञदत्तश्च भवतीति 'भो वटो ! भिक्षामट यदि पश्यसि गां चानय' इत्यादिना तु अन्वाचयदर्शनमात्रं कृतमिति भावः ।। ३४८।