________________
कातन्त्रव्याकरणम्
३५२
श्रयतो लिङ्गवचनमुक्तम्, तथा संज्ञाकार्यमपि भवतीति भावः । विप्रतिषिद्धेष्वप्यन्योऽन्यार्थोपादानता सिद्धैव । न चोद्यं जननमरणे, शीतीष्णे, सुखदुःखे इति कथं विरुद्धयोरेकेनाभिधानमिति । सर्व एव हि शब्दाः परस्परं विप्रतिषिद्धार्थाः । देवदत्तशब्दोऽपि प्रयुक्तः स्वार्थं प्रत्याययति, यज्ञदत्तार्थं निवर्तयतीति तथैव यज्ञदत्तशब्दोऽपीति तथैव यज्ञदत्तशब्दोऽपीति को विशेषः । तस्मात् स्वभावात् समासाभिधानमेव । अन्यथा द्विवचनबहुवचनमपि कथम् । तथा च आराद् दूरान्तिकयोः पुराशब्दश्च भविष्यदतीतयोः स्वभावादिति किं प्रलपितेन बहुनेति स्थितम् । कश्चिद् आह - देवदत्तयज्ञदत्तयोः : समुदाय एताभ्यां प्रतीयत इति तस्य च द्व्यवयवत्वाद् द्विवचनं सिद्धमिति न युक्तिरियं समुदायस्याश्रयभूतस्य एकत्वाद् एकार्थः कथन्न स्यात् । यथा शतयूथमिति तस्मादितरेतरयोगे द्वन्द्वस्यान्वर्थतापि तेनैवाधिगतेति ॥ ३४८ |
[वि० प० ]
द्वन्द्वः। ननु नाम्नां यः समुच्चयः स द्वन्द्व इत्युक्ते कथमितरेतरयोगे समाहारे च भवतीत्याह - इतरेतर इत्यादि । समुच्चितिः समुच्चयो राशीभाव:, स चानयोरपि विद्यते इत्यर्थः । तत्र इतरेतरयोगोऽवयवप्रधान इति तत्कृते द्विवचनबहुवचने भवतः । यथा देवदत्तयज्ञदत्तादि | समाहारः संहतिप्रधान इत्येकवचनमेव । वाग्दृशदम् इत्यादि । इह ‘समाहारद्वन्द्वचवर्गदषहान्त' (२/६/४१ - ३६) इति राजादित्वाद् अत् । यस्तु प्राधान्येन समुच्चयः क्वचित् क्रियाविषयेऽनेकेषां समुच्चीयमानता । यथा धवांश्च खदिरांश्च पलाशांश्च हिन्द्वीति । तत्र समासो न भवति, प्राधान्येन क्रियासंबद्धानां धवादीनां परस्परासंबद्धत्वान्नास्ति युक्तार्थता | अन्वाचयस्तु समुदायादन्य एवेति न तत्र प्राप्तिः समासस्य । यथा भो वटो ! भिक्षामट, यदि पश्यसि गां चानयेति । न चात्र संबन्धोऽस्ति भिक्षाटनस्य प्रधानत्वेनेतरनिरपेक्षत्वात् || ३४८ ।
[क० च० ]
द्वन्द्वः। यत्र समासे नाम्नोर्नाम्नां वा यः समुच्चयः स द्वन्द्व इत्युक्ते राजपुरुष इत्यादावपि द्वन्द्वसंज्ञा स्यात् । अत्रापि नाम्नोः समुच्चयस्य विद्यमानत्वात् । नैवम् | नाम्नामित्यर्थपरोऽयं निर्देशः । ततश्च यत्र यत्र समासे नामार्थस्य समुच्चयो राशीभावः प्रतीतिविषयो भवति तस्मिंस्तस्मिन् वाक्ये समुच्चयो द्वन्द्वो भवतीति सूत्रार्थः ।