________________
नामचतुष्टयाध्याये पञ्चमः समासपाद:
३५१
[रूपसिद्धि]
१. दक्षिणपूर्वा । दक्षिणा + ङस् + पूर्वा + ङस् । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालम् । प्रकृतसूत्र से बहुव्रीहि समास, लिङ्गसंज्ञा तथा विभक्तिकार्य ॥३४७। ३४८. द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत् [२/५/११]
[सूत्रार्थ]
जिस समास में दो अथवा बहुत पदों का समुच्चय होता है, उसकी द्वन्द्व संज्ञा होती है ।।३४८।
[दु० वृ०]
द्वयोर्नाम्नोर्बहूनां वापि नाम्नां यः समुच्चयः स द्वन्द्वो भवेत् । देवदत्तश्च यज्ञदत्तश्च देवदत्तयज्ञदत्तौ । धवखदिरपलाशा : | वाग्दृशदम् । पीठच्छत्रोपानहम् । इतरेतरयोगः, समाहारश्च समुच्चयस्यैव भेद इति ।।३४८।
[दु० टी०]
द्वन्द्वः। समुच्चितिः समुच्चयो राशीभाव इत्यर्थः । अस्यैव भेदः इतरेतरयोगः समाहारश्चेति। तत्र यः समुच्चयः प्राधान्येन क्वचित् क्रियाविशेषेऽनेकेषां समुच्चीयमानता । तथा धवांश्च खदिरांश्च पलाशांश्च छिन्द्वीति । इतरेतरयोगोऽन्योऽन्यार्थोपादानाद् यथा देवदत्तयज्ञदत्तावित्यादि । देवदत्तशब्दो यज्ञदत्तार्थो भवति यज्ञदत्तश्च देवदत्तार्थोऽपीति इतरेतरार्थयोगः । स च प्रधानभावेनेति संभवापेक्षया द्विवचनबहुवचने समासाद् भवतः । वाक्ये तु चकार एव यथोक्तमर्थमभिव्यनक्तीति न वचनभेदः । समाहारस्तिरोहितावयवभेदः समुदायः, स चैक इत्येकवचनमेव । यथा वाग्दृशदमिति समाहारद्वन्द्वाच्चवर्गदशहान्तादत् । मुख्ये तु समुच्चये परस्परासम्बद्धानां प्रधानानां क्रियाभिसंबध्यमानानां नास्ति समासः । अन्वाचयस्तु समुच्चयात् पृथगेव । यथा भिक्षामट गाञ्चानयेति । भिक्षाटनमत्र प्रधानम्, यदि पश्यसि गामप्यानयेति प्रधानस्येतरनिरपेक्षत्वाद् असम्बन्ध इत्यत्रापि नास्ति समासः । चार्थ इति न कृतमत्रापि, विशेषस्येष्टत्वात् । यद्यपि समुच्चयो राशीभावरूपत्वादसत्त्वभूतस्तथापि गुणवचनवदा