________________
४२२
कातन्वयाकरणम्
[दु० टी०]
ण्य० । गोत्रेत्यादि । ये संज्ञाकारित्वेन प्रसिद्धा गर्गादिनामानः केचिदादिपुरुषाः यदपत्यसन्तानान्तःपातिनः पुमांसो गर्गादिव्यपदेशमासादयन्ति ते गोत्रादिभूताः। उक्तं च
अभिज्ञातिपदार्था ये स्वतन्त्रा लोकविश्रुताः।
शास्त्रार्थस्तेषु वक्तव्यः शब्देषु न तदुक्तिषु॥ पुत्रस्यापत्यं पौत्रः स एवादिर्यस्येति आदिग्रहणं सुखार्थं पौत्रशब्दवाच्या हि सर्व इति । अन्यत्र गार्गिरिति । यो गोत्रादिभूतो न भवति यच्च पौत्राद्यपत्यं न भवति तत्र "इणतः" (२/६/५) इत्यर्थः । क्वचित् प्रथमापत्येऽप्यभिधानमित्याह-अनन्तरोऽपीत्यादि । प्रथमापत्येऽणपि दृश्यत इत्याह-जामदग्न इत्यादि । यस्तु पौत्रादाविति कृतवान् स आह-पुत्रोऽपि पौत्रादिकार्यकरणशीलत्वात् तथा व्यपदिश्यते ।प्रथमापत्यविवक्षायामणेव न्यायादिति, तदेतच्चिन्त्यम् । कथं रामो भगवान् व्यासः पौत्रादिकार्यकरणशीलः । इहाद्यपवादोऽयं योगः।
गर्गादिः । गर्ग, वत्स, राज (असमासे), संकृति, असंकृति, अज, व्याघ्रपाद, विदभृत, प्राचीन, योग, पुलस्ति, रेभ, अग्निवेश, शङ्ख, शट, शक, धूम, अवट, चमस, धनञ्जय, वृक्ष, अक्ष, दक्ष, विश्वावसु, जरमाण, सालु, कुरुकत, अनड्डाह, लोहित, शंसित, बभ्रु, वर्ण, वफु, मन्तू, मङ्कु, शम्भु, मङ्क्ष, सङ्कुल, सर्कु, निलु (लिगु), गडुल, गुहलु, जिगीषु, मनु, तन्तु, मनायी, कच्छप, श्रुव, रुक्ष, कन्न, भाण्ड, तण्ड, वतण्ड, तङ्ग, कपिकत, शकलकण्ठ, गोकक्ष, अगस्ति, (अगस्त्य), कुण्डिलि (कुण्डिनि), यज्ञवल्क, पर्णवल्क, अभयाजात, रोहित (विरोहित), वृषगण, बाहोगण, शण्डिल, मुद्गल, मुषल, अनल, पराशर, भृगु, जतुकर्ण, मन्त्रित, अश्वरथ, शर्कराक्ष, पूतिमाष, अररक, बलाक, पिङ्गल, कृष्ण, गोनर्द, (गोलन्द), अनुक, उलूक, तितिक्ष, भिषज्, भण्डित, दन्त, विरतिक, दण्ड, देवहू, इन्द्रहू, पिप्पल, बृहदग्नि, जमदग्नि, अनाजिन, उक्थ, कुटिगु, उछ, कुटाश्व' एते गर्गादयः प्रसिद्धाः।
इहान्येऽपि प्रतिपत्तव्याःअभिधानादित्याह-गर्गादिराकृतिगण इति । राज असमास इति राजशब्दो ण्यमुत्पादयति । असमासे राज्यः। असमास इति किम् ? सुराजस्या