________________
१८६
कातन्त्रव्याकरणम्
३२१. निर्धारणे च [२।४।३६] [सूत्रार्थ]
निर्धारण अर्थ की विवक्षा में लिङ्ग = प्रातिपदिक से षष्ठी तथा सप्तमी विभक्तियाँ होती हैं ||३२१।
[दु० वृ०]
निर्धारणे चार्थे वर्तमानाल्लिङ्गात् षष्ठी भवति सप्तमी च । पुरुषाणां क्षत्रियाः शूराः, पुरुषेषु क्षत्रियाः शूराः । गवां कृष्णा सम्पन्नक्षीरा, गोषु कृष्णा सम्पन्नक्षीरा | गच्छतां धावन्तः शीघ्राः, गच्छत्सु धावन्तः शीघ्राः ।
[दु० टी०]
निर्धा० । निर्धार्यते पृथक् क्रियते यस्मात् समुदायाद् एकदेशो जातिगुणक्रियाभिस्तनिर्धारणम् । “कृत्ययुटोऽन्यत्रापि च" (४।५।९२) इत्यपादाने युट् । तस्मिन्निर्धारणे वर्तमानादित्यर्थः । अथवा निर्धार्यस्य निर्धारणे गम्यमाने अप्रधानादेव पूर्ववत् । न क्षत्रियः पूरुषेषु आदृतः शूरो भवति, न च पुरुषाणां संबन्धि क्षत्रियत्वम्, तस्मात् षष्ठीसप्तमीविधानार्थं पञ्चमीबाधनार्थं च वचनम् । पृथक्करणस्यापायत्वान्न ‘वृक्षस्य शाखा, वृक्षे शाखा' इतिवदवयवावयविसम्बन्धविषयत्वं घटते ।माथुराः पाटलिपुत्रकेभ्यः सुकुमारतरा इति भवतेर्गम्यमानत्वात् पाटलिपुत्रका माथुराश्च सर्वे सुकुमारा अतिशयेन पाटलिपुत्रकेभ्यो माथुरा इति नित्यं विभागेनैव वर्तन्ते । नैकजातिसंबन्धेन सर्वे चोदिताः, यथा गवां कृष्णा गौरिति तस्मानिर्धारणे षष्ठीसप्तम्योरप्राप्ति-रिति किं विभागेन, यतो निर्धारणं ततः पञ्चमीविधानेन इति । 'पञ्चकृत्वोऽह्रो भुङ्क्ते' इति संबन्धः । द्विरह्नि भुङ्क्ते इत्याधारः । कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे शेषभूते षष्ठी । शेषादन्यत्र सप्तम्येवेति वचने सति व्यङ्गविकलता । अहनि शेते' इति कृत्वोऽर्थस्य शेषस्याप्यभावः । अहनि भुङ्क्ते द्विस्त्रिर्वेति गम्यमाने कृत्वोऽर्थे तच्छब्दप्रयोगस्य शेषस्याप्यभावः । 'द्विः कांस्यपात्र्यां भुङ्क्ते' इति कालस्य शेषत्वस्याप्यभावः । 'द्विरला भुङ्क्ते' इति करणत्वमपि ।।३२१।