________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
विद्यते तद्विषयं शिल्पं विज्ञाप्यते । अथवा मृदङ्गवादनशब्दाद् विधिस्वभावात् तद्धितवृत्त्यैवोक्तार्थः, कुत इह वादनादिक्रियाप्रयोगः । यथा दध्ना संसिक्त ओदनो दध्योदनः इति ? समासेन संसिक्तक्रियोच्यते तथेहापीति भावः ।
४५१
|
एवं सति गौणमुख्यचिन्तापि नावतरतीति । धर्म्युपचारोऽयं धर्मोपचारेण भाष्येऽभिप्रेतः । धर्मो हि शिल्पम्, धर्मिणी क्रिया । सोऽयमित्यभेदसंबन्धेन च धर्मशब्दो धर्मिणि वर्तते । तेन शिल्पे धर्मक्रियैव शिल्पशब्देनाभिप्रेता वादनादिप्रयुक्तत्वाच्च मृदङ्गादीनां हेतुभिः फलस्य युक्तोऽधिगम इति मृदङ्गादयः शिल्पधर्माण एवेति । ननु शिल्पशब्दो न कौशलमात्रमाचष्टे अपि तु कौशलविशेषम् । तथाहि शिल्पिनो रजका - दय एव क्रियानुजीविन उच्यन्ते । नैवम् विज्ञानप्रकर्षमात्रेऽपि शिल्पशब्दः प्रयुज्यते । ‘व्याकरणं शिल्पमस्य, वेदाः शिल्पमस्य, यज्ञः शिल्पमस्य' इतीनन्तेन विशेषाभिधानम् । ‘रूढिशब्दा हि तद्धिताः' इति । यदा तु मृदङ्गकरणं शिल्पमस्येति विग्रहस्तदा मार्दङ्गकरणिकः' इति भवितव्यम् । करणशब्दमन्तरेण तदर्थाप्रतीतेः । द्वारनियोगेत्यादि । नियुज्यतेऽस्मिन्निति नियोगो द्वारादिस्तत्र नियुक्तोऽपि द्वारादिस्तत्र संबन्धाद् दौवारिकः इति । क्वचिदधिकारात् तत्र न वृद्धिः । क्रीताद्यर्थयोगात् क्रीतादिः । क्रीतादेरर्थनिर्देशात् तत्संबद्धैव प्रकृतिरिह प्रतिपत्तव्या । आकृतिगणत्वाच्च यो यत्र दृष्टः स तत्रार्धे इत्याहयथा संबद्धमित्यादि । द्विशौर्पिक इति । तत्र क्वचिदधिकारात् परपदस्यैव वृद्धिः ।
देवदत्तेन क्रीतम्, पाणिनिना क्रीतम्, मूल्येन क्रीतमित्यत्र इकण् न दृश्यते । 'प्रास्थिकम्' इत्युक्ते प्रस्थाभ्यां प्रस्थैर्वा क्रीतमिति संख्याविशेषो न गम्यते । तथा अङ्गुल्या खनतीत्यत्रानभिधानम् | कुद्दालेन खननयोगात् कौद्दालिकः इति । एवं सर्वत्र योज्यम् । ओजसा वर्तते, सहसा वर्तते, अम्भसा वर्तते इत्यर्थदर्शनम् । प्रत्यनुभ्यामीपलोमकूलानि । प्रतीपं वर्तते प्रातीपिकः । एवमानुलोमिकः, आनुकूलिकः । क्रियाविशेषणत्वाद् द्वितीया । परेर्मुखपार्श्वाभ्याम् । परिमुखं वर्तते पारिमुखिकः, पारिपार्श्विकः । तदुञ्छति - बदराण्युञ्छति बादरिकः, उच्चिनोतीत्यर्थः । तद्रक्षति - समाजं रक्षति सामाजिकः । शब्ददर्दुरौ करोति - शाब्दिको वैयाकरण एव रूढः, न काकादिः । दर्दुरशब्दोऽयमातोद्यवाद्यविशेषो दार्दुरिकः । न दर्दुरं घटं करोति यः स उच्यते । मृगपक्षिमत्स्यान् हन्ति - मार्गिकः, पाक्षिकः, मात्सिकः । अर्थप्रधानत्वान्निर्देशस्य पर्यायेभ्यो विशेषेभ्योऽपि । हारिणिकः इति पर्यायस्य शौकरिक इति विशेषस्य ।
1