________________
४५०
कातन्वव्याकरणम्
केचिदिच्छन्ति । यथा संख्याकालयोरविवक्षा न तथैकप्रकरणस्यापि साधनस्य क्रियाप्रधानत्वादाख्यातस्य क्रियायां विवक्ष्यमाणायां साधनं प्रत्यक्षेणैव क्रियोपकारकं समवैतीति कृते वाक्यार्थे युक्ता साधनविवक्षा । किञ्च तेनेति करणेन सम्बन्धाद् यस्य विवक्षामन्तरेण द्वितीयस्य पदस्य पदैकदेशस्य वा श्रवणमनर्थकं भवति स नियोगतो विवक्षितव्यः । दीव्यतीत्यादिषु तु धात्वर्थमात्रे विवक्ष्यमाणे साधनवाचिनां श्रवणमनर्थकमिति युक्ता विवक्षा।
ननु चाक्षर्देविष्यतीति भविष्यत्यपि प्राप्नोति । देविष्यंश्च देवनस्य कतैव कर्तुरुक्तार्थताभिधानात् । नैतत्, एवं भाविनी कर्तृतामारोप्य उक्तार्थतया यदि भविष्यति कर्तृत्वाध्यारोपत्वान्न भवति तर्हि भूतेऽपि न प्राप्नोति । अझै तवान् आक्षिकः इति भूतपूर्वकत्वात् कर्तृत्वाध्यारोप इति भावः ? सत्यम् । भूतेऽपि संस्कारानुवृत्त्या देवनमाविर्भवदिव भातीति कर्तृत्वम् । यत्र संस्कारावगमो नास्ति, तत्र न भवत्येव । कथमासीद् आक्षिको भविष्यति आक्षिक इति । नैवम्, भूतभविष्यत्कालावगमोऽत्र पदान्तरसान्निध्यात् । अथवा त्रिष्वपि कालेषु । यथा अपचन्नपि योग्यतया पाचक इति व्यपदिश्यते । तथेहापि स्या र्थेऽपीकण भवन् गुणभूतक्रियः कर्तृप्रधान एव स्वभावात् । जयति, जितमिति न वक्तव्यमेव । यो ह्यक्षैर्दीव्यति स कदाचिज्जयति जितो वाऽभिधीयते । रूढिशब्दाश्च तद्धिता इति क्रीतादित्वाद् वा अभेदोपचारवृत्तेः ।
पण्यादिति । पण्यं विक्रेयद्रव्यम्, तत्संबन्धाद् विक्रेतापि पण्यमुच्यते इति भावः प्रत्ययस्तु द्योतकः श्रुतादेव पण्यवाचिनः शब्दाद् भवति किं “तदस्य पण्यम्" इत्युक्तेन । शिल्पं विज्ञानकौशलं क्रियाभ्यासपूर्वकं तत्सम्बन्धाद् विज्ञानवानपि शिल्पमुच्यते श्रुतादेव शिल्पवाचिनः शब्दात् पूर्ववत् प्रत्यय इति किं “तदस्य शिल्पम्" (अ०४/४/५१) इत्युक्तेन | मृदङ्ग-शिल्पयोगान्मार्दङ्गिक इति । कथं मृदङ्गः शिल्पम् ? सत्यम् । मृदङ्गवादने शिल्पे मृदङ्गशब्दस्तद्विषयत्वात् । मृदङ्गो वाद्यते येन शिल्पेन तन्मृदङ्गवादनं तस्मिन् वर्तमानः प्रत्ययहेतुर्न स्वार्थे इत्यर्थः। मृदङ्गवादने वा मृदङ्गशब्द इह वृद्धस्मरणात् कुत इदं चोद्यं क्रियाविषयत्वात् शिल्पस्य क्रियाशब्देभ्य एव इकण् स्यादिति । नृत्यं शिल्पमस्य गीतं शिल्पमस्य वादनं शिल्पमस्येति न द्रव्यवचनेभ्यो मृदङ्गः शिल्पमस्य पणवः शिल्पमस्येति मृदङ्गादिष्वपि वादनादिक्रिया