________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४४९ त्वनभिधानात् । सम्पूर्वः सृजिरप्यकर्मक एवेति कर्तरि निष्ठा । एवं मारीचिकमिति, तेन संस्कृतमित्यपि न वक्तव्यमिति भावः । यत्र संस्कारस्तत्र संसर्गोऽस्त्येव । ननु संसर्गो हि मूर्तिमतां सम्भवति, संस्कारश्च सत उत्कर्षाधानम् । यथा विद्यया संस्कृतो वैधिक इति । न खल्वत्र संसर्गःप्रतीयते । तस्मात् “तेन संस्कृतम्" (२/६/७) इति वक्तव्यमेव ? सत्यम् । संसृजिरयं संस्कारेऽपि धातूनामनेकार्थत्वाद् उपचाराद् वेति मन्यते । तथा दना उपसिक्त ओदनः दाधिकः, सौपिकः इति संसृष्टत्वात् । अथ व्यञ्जनैरुपसिक्तमिति वक्तव्यम्, व्यञ्जनशब्दः सूपादावेव रूढः। इह मा भूत् । उदकेनोपसिक्त ओदन इति । नैवम्, यथा सूपेन संसृष्टा (उपसिक्ता) स्थालीत्यत्र न स्यात् । तथेहापीति । रूढिशब्दा हि तद्धिता इति, यथा मुद्गादण विधीयमानः संसृष्टेऽर्थे मुद्गैः संसृष्टा माषा इत्यत्र न भवति । लवणेन संसृष्टा यवागूलवणाल्लुग् न वक्तव्यः । लवणः (लवण्यः) कषायो मधुर इति गुणः सोऽयमित्यभेदात् सिद्धः । यथा शुक्लः पट इति |
अथ लवणशब्दोऽत्र द्रव्यवचनोऽप्यस्ति । यथा लवणः प्रस्थः, पञ्च लवणानीति । इहापि लवणयोगाल्लवणः सूपः इति विवक्षा सर्वदाऽभिधीयते । यथा दण्डयोगाद् दण्डः पुरुष इति । तरतिरयमस्ति प्लवेन | यथा तरति पत्रं न निमज्जति । अस्ति तत्पूर्वक देशान्तरगमने । यथा नदीं तरति अस्त्यभिभवे । यथा तरति ब्रह्महत्याम्, योऽश्वमेधेन यजते इति । तत्र यः प्लवनमात्रवृत्तिस्तस्येदं ग्रहणं तस्याकर्मकत्वात् कर्म नाक्षिप्यते नियताधारत्वात् सामथ्यदिवाधारमपि नाक्षिपति । काण्डप्लविकोऽयमित्युक्ते न किञ्चिदपेक्ष्यम् । इतरत्र तु काण्डप्लवेन नदीं तरति, अश्वमेधेन ब्रह्महत्यां तरतीति नद्याद्यपेक्ष्यं तद्धिते सति सामान्यस्य प्रधानत्वात् सम्बन्ध एवाभिधीयते इत्याह -काण्ड इत्यादि । कथं घण्टिकः, प्लविकः । तत्र क्वचिदधिकाराद् द्विस्वरस्य न वृद्धिः । नाविका स्त्रीति नदादेराकृतिगणत्वादीन भवति । चरतिरयं गतौ भक्षणे च । अत्र गतौ शकटेन चरति शाकटिक इति विशेषणे करणे वा तृतीया । घण्टया चरति पाण्टिक इति विशेषणे हेत्वर्थे वा । विवक्षावशात् सहयोगेऽनभिधानमेव -सह छात्रेण चरति । भक्षणे करण एव तृतीया - शृङ्गवेरेण चरति शाङ्गवेरिक इति । चरतिरिह गतौ रूढः । भक्षणार्थमपि