________________
१२
कातन्त्रव्याकरणम
[दु० वृ०]
अव्ययमसंख्यम् । अव्ययाच्च विभक्तीनां लुग् भवति । स्वः, प्रातः, च, वा, अह । एवमन्येऽपि | पदसंज्ञार्थमिदम् ।। २८९।
[दु० टी०]
अव्यया० । न व्येतीत्यव्ययम् । न विद्यते संख्या यस्येत्यसंख्यं पर्यायः कथ्यते । तथा चाह -
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति । विभक्तिः कारकमिहोच्यते, श्लोके वचनग्रहणात् । स्वरादयश्च स्वर्गादेराधिकरणप्रधानस्य वाचकाः स्वभावादसंख्याः । चादयस्तु पदान्तरस्य यो धर्मः समुच्चयादिस्तस्य स्वसन्निधानमात्रेणोपकारिणो योतकाः। यश्च नियमोऽन्वर्थसंज्ञया एकस्मिन्नर्थे एकवचनम्, द्वयोरेव द्विवचनम्, बहुष्वेव बहुवचनम्, कर्मण्येव द्वितीयेत्यादि । स च तुल्यजातीयस्य संख्याकर्मादिमतः इत्यव्ययेभ्यः सामान्यविहिताः स्यादयो विद्यन्ते एवेत्याह - विभक्तीनामिति । अथवा सर्वस्या विभक्तेः सर्ववचनस्योत्पत्तौ प्रयोजनाभावात् प्रथमैकवचनमेवाव्यवहितं प्रवर्तते, विभक्तीनामिति बहुवचनम्, अधिकारवशात् ।
एकवाक्यतावादी पुनराह - अस्मादेव लुग्विधानाद् अव्ययेभ्यो विभक्तिरनुमीयते इति । पदसंज्ञार्थमिदमिति । यद्यपि पूर्वमात्रार्थः प्रतीयते तथापि "पूर्वपरयोरर्थोपलब्धौ पदम्" (१।१।२०) इति वचनात् परमन्तरेण पदसंज्ञा न स्यात् । किञ्च विद्यमानपूर्वपदात् प्रथमान्ताद् विभाषाऽव्ययादपि परयोर्युष्मदस्मदोरादेशाः यथा स्युरिति । यद्येवम्, सर्वविभक्त्युत्पत्तिपक्षे दुष्यति । नैवम् । नात्र तत् सूत्रम्, किन्तर्हि व्यवस्थितविभाषार्थः । तदाऽव्ययेभ्योऽपि विद्यमानपूर्वपदेभ्यो विभाषा भवत्येव । अथवा वस्तुमात्रं लिङ्गार्थ इति। 'उच्चैः, नीचैः' इत्यादावधिकरणशक्तिरव्यभिचारिणी । अव्ययानां लिङ्गार्थे इति प्रथमैव भवति । 'स्वर्यातः' इत्यादौ चाव्यभिचारात् कर्मापि लिङ्गार्थ इति प्रथमैव ।