________________
६०२
कातन्त्रव्याकरणम् ऐकार्थं पृथगर्थानां वृत्तिं युक्तार्थतां विदुः। शब्दानां शक्तिवैचित्र्यात् तत् समासादिषु स्मृतम् ॥१०॥ वृत्तिशब्दैकदेशस्य पदस्येह स्वभावतः। स्यादौ स्थितेऽपि तस्यार्थः संख्यानं विनिवर्तते ॥११॥ स्वार्थानजहतां तत्र पूर्ववत पृथगर्थता । कथं च पृथगर्थत्वे सत्येवैकार्थता भवेत् ॥१२। स्वार्थानजहतां किञ्च न किञ्चिदिह विच्युतम् । पदान्तरैरसम्बन्धोऽवयवानां किं निबन्धनः॥१३॥ तस्मात् स्वार्थपरित्यागात् तेषामन्यैरनन्वयः। अर्थद्वारा पदानां हि सम्बन्धः स्यात् परस्परम् ॥१४॥ गुरुदासादयो येऽपि नित्यं सप्रतियोगिकाः। तेषामपि तथा भावे सम्बन्धः केन हेतुना ॥१५॥ यथा प्रजावतीयं मे ममायं देवरो यथा। भ्रातुर्भर्तुरसम्बन्धे विशिष्टेनास्मदोऽन्वय ॥१६॥ तथेयं दासभार्या मे एतद् गुरुकुलं मम । दासभार्यादिनार्थेन विशिष्टेनास्मदोऽन्वयः॥१७॥ साधनोपनिपातस्तु तथा चिन्त्यः क्रियापदे । यथा स्नुषा प्रजावत्यौ पुष्पवन्तौ च रोदसी ॥१८॥ यथेन्दीवरमित्यादि भागाभ्यां नाभिधायकम् । एकार्थीभावमापन्नमेवं नीलोत्पलादिकम् ॥१९॥ प्रत्येकम् अभिधाशक्तिः पदानामवघारिता । ताभिरेवोपपद्यन्ते वृत्तावप्यर्थबुद्धयः॥२०॥ तत् कथं पूर्वशक्तीनां निवृत्तिरिह लक्ष्यते । समूहे चाभिधा शक्तिः कथमन्या प्रतीयते ॥२१॥ द्वन्द्वे खलु जहत्स्वार्थे यथासंख्य विरुध्यते । वाचकक्रममूलो हि तदर्थानामनुक्रमः॥२२। दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः। राज्ञोऽत्रापृथगर्थत्वे किं परामृश्यते तदा ॥२३॥