________________
५८०
कातन्त्रव्याकरणम्
९३. प्रधाने वह्यर्थकृषः वह्यर्थात् कृषश्च प्रधाने कर्मणि प्रत्ययो भवति । उह्यते ग्रामं भारः, ऊढो ग्रामं भारः, ह्रियते कुम्भो भारम्, नीयते भारो ग्रामम् । अहारि कुम्भो भारम् । कृष्यते शाखा ग्रामम्, कृष्टा शाखा ग्रामम् । इनन्तानामप्येषामियमेव व्यवस्था, न चेत् प्रयोज्यं कर्म । वाह्यते भारो ग्रामं देवदत्तेन, नाव्यते भारो ग्रामम्, हार्यते भारो ग्रामम्, कर्ण्यते शाखा ग्रामम् । सति तु प्रयोज्ये कर्मणि तत्रैव । बाह्यते गोणी ग्रामं वृषभो भृत्येन । हार्यते ग्रामं भारं भृत्य ः स्वामिना । पञ्चमीनिर्देशात् षष्ठी द्वितीयावद् अप्रधानेऽपि । वोढा ग्रामस्य भाराणाम्, नेता कुम्भस्य कूपानाम्, हर्ता भारस्य भाण्डानाम्, कर्ता क्षेत्रस्य कण्टकानाम् । नैयासिकास्तु षष्ठीमपि प्रधाने कर्मण्याहुः ।। ९३ ।
९४. इनः कर्तृकर्मणि इनन्तात् कर्तृकर्मणि कर्मप्रत्ययो भवति । गम्यते भृत्यो ग्रामम्, न प्रसादमुचितं गमिता द्यौः । अध्याप्यते वेदं माणवकः । भोज्यते माणवक ओदनम् । ज्ञाप्यते माणवकः शास्त्रम् । अभिवाद्यते पुत्रो गुरुम् । कार्यते भृत्यः कटम् । कर्मान्तरसम्भवे नियमोऽयमिति कर्तृकर्मणोरभावे कर्मान्तरेऽपि स्यादेव । गौय्यिते, ओदनः पाच्यते ।गुरुरभिवाद्यते शिष्यः प्रजाभिः ।।९४।
९५. प्रकृतिविकृत्योः प्रकृतिवच्च कर्तृभूतयोः कर्मभूतयोश्च प्रकृतिविकृत्योर्युगपत् प्रत्ययो भवति, प्रकृतिवच्च लिङ्गपुरुषवचनानि भवन्ति । त्वमहमभूः । अहं त्वमभूवम् । तृणानि कटः सम्पन्नानि, तन्तवः पटो भवन्ति । एको द्वौ भूतः । कर्मणि च – काशाः कटः क्रियन्ते, मृद् घटः कृता, त्वमहं क्रियसे, अहं त्वं क्रिये, अनहं त्वमकारि, अनहमहं क्रियते ।। ९५ |
९६. भावाख्यातं ध्रौव्यात् ध्रौव्यादकर्मकादेव भावे विहितमाख्यातं भवति । शय्यते त्वया, अवर्द्धि विधुना, जीविष्यते मया । ध्रौव्यादिति किम् ? पच्यन्ते माषाः। त्रिमुनिसंग्रहकारास्तु पूर्वमविवक्षितकर्मत्वान्माषान् पच्यते इत्यपीच्छन्ति । आख्यातग्रहणं किम् ? ग्रामं गन्तुं समयः, माषस्य पाकः । कृत्यक्तखलास्त्विह सकर्मकादपि भावे स्युरेव । कां दिशं मया गन्तव्यम्, भ्रान्तं दिशम्, ईषत्करः कटम् ।। ९६ ।