________________
५८१
परिशिष्टम् -१ ९७. धातोः कर्तर्यप्रयोज्ये
अप्रयोज्ये कर्तरि धातोः प्रत्ययो भवति । ओदनं पाचयति भृत्येन गृही, ओदनस्य पाचयिता भृत्येन गृही । इन्नर्थोपसर्जनस्यापि क्रियायाः कारके प्रत्ययोऽस्ति । यथा ओदनः पाच्यते, पाचयत्योदनं भृत्येन गृही । तस्मादयमारम्भः ।।९७।
९८. नाव्ययकृदविधिः क्रियान्तरकारके क्रियान्तरस्य कारकेऽव्ययकृदन्तनिबन्धनो विधिन भवति । भोक्तुमोदनस्य पाचकश्छात्रः । पक्त्वौदनस्य भोक्ता | भोक्तुं स्थितिरस्य । भुक्त्वाऽस्य व्रज्या । एष्वव्ययकृदन्तनिबन्धनः षष्ठीनिषेधो न स्यात् । पक्त्वौदनो भुज्यते, पक्त्वौदनो भुक्तः, पक्त्वौदनं भुक्तवानहम्, भोक्तुमोदनः पक्वः, भोक्तुमिष्टाः शालयः । भोक्तुमिच्छत्ययम्, ग्राहं ग्राहमुप्ता व्रीहयः, ग्राहं ग्राहमयं व्रीहीन् वपति । एष्वव्ययकृदन्तापेक्षे कारके न द्वितीयादिः, किन्तु क्रियान्तरापेक्षस्य तस्योक्तत्वात् प्रथमैव । क्वचिन्निपातस्यापि कारकाभिधानशक्तिः । मनस्विगर्हितः पन्थाः समारोढुमसाम्प्रतम्' । क्रियान्तरकारक इति किम् ? छात्रेण भोक्तुं समयः । कटं कृत्वा घटः क्रियते ।।९८ |
९९. कर्मप्रवचनीयः एषोऽधिक्रियते || ९९।
१००. अभिरित्थम्भावलक्षणीप्सासु एष्वर्थेष्वभिः कर्मप्रवचनीयः स्यात् । इत्थंभावः कस्यचित् प्रकारस्यापत्तिः । साधुर्देवदत्तो मातरमभि, वृक्षमभि विद्योतते विद्युत्, वृक्षं वृक्षमभि षिञ्चति ।।१००।
१०१. परिप्रती भागे च इत्थम्भावादिषु त्रिषु भागे च परिप्रती कर्मप्रवचनीयौ भवतः । कुशलोऽसि छात्र ! अक्षान् परि । कुशलोऽसि छात्र ! अक्षान् प्रति । वृक्षं परि, वृक्षं प्रति विद्योतते विद्युत् । वृक्षं वृक्षं परि, वृक्षं वृक्षं प्रति काकाः । यदत्र मां प्रति, यदत्र मां परि तद् देहि ।। १०१ ।
१०२. तेष्वनुः . तेषु चतुर्वर्थेष्वनुः कर्मप्रवचनीयो भवति । साधुवृषलो ब्राह्मणाननु, वृक्षमनु विद्योतते विद्युत्, वृक्षं वृक्षमनु, यदत्र मामनु तद् देहि ।। १०२ ।