________________
परिशिष्टम् - १
५८५
,
विषविषमा मधुरा हि युवत्यः । यथा व्यावक्रोशी, पचा, उपासनेति, तथा कश्चित् कृदीकारादीमिच्छन् लक्ष्मीयमिति मन्यते । अत्यर्थादिति किम् ? धृतिः, ज्यानिः, अजीवनिस्ते कां कारिः क्रियते । शास्तिरित्यपि शासेरिनन्ताद् विज्ञप्तिवद् युविषये क्वचित् क्तिः । तथा च पाचयतेः पाक्तिः, याजयतेर्याष्टिरिति भाष्यम् । पद्धती, यष्टी, शक्ती शस्त्रम् इत्यौणादिकाद् ईः । अनादेशादिति किम् ? सुगन्धिः स्रक्, युवजानिः पूः। इह ‘“गन्धस्येत्, जायाया जानिश्च" आदिश्यते । अकतेरिति किम् ? कति कन्यकाः। तदन्तादपि प्रियकतिरियं गणिका, प्रियकतीनि, प्रियकतीन्, प्रियकती: पश्यतीह निश्चितम् ||२|
३. इण् नृजातिभ्याम्
इणन्तान्नृजातेश्च इदन्तान्नित्यम् ईप्रत्ययो भवति । सुतङ्गमेन निर्वृत्ता सौतङ्गमी पूः, एवम् औणचित्ती । सुतङ्गमादेरिग् देशे तेन निर्वृत्ते । इन्द्रस्यापत्यम् ऐन्द्री देवता । नृजातेश्च कुन्ती, अवन्ती, गोत्रत्वाज्जातिः । गोत्रग्रहणं किम् ? तित्तिरिः । नृशब्दोऽत्र मनुष्यपर्याय: । इत इत्येव - अध्वर्युः स्त्री । चरणत्वाज्जातिः ।। ३ ।
४. उतो गुणवचनादखरुसंयोगोपधाद् वा खरुसंयोगोपधवर्जितादुकारान्ताद् गुणवचनाद् ईर्भवति वा । पट्वी, पटुः स्त्री । लघ्वी, लघुः । लघ्वीति मानविशेषे नित्यं रूढित्वात् । बह्वी, बहुः । अखरुसंयोगोपधादिति किम् ? खरुः, पाण्डुः स्त्री । खरुः श्वेतार्थो गुणवचनः || ४ | ५. संख्यादेर्दाम्नः
स्त्रियां संख्यापूर्वाद् दाम्नो नित्यमीर्भवति । द्विदाम्नी, त्रिदाम्नी रज्जुः । संख्यादेरिति किम् ? सुदामा गौः || ५|
६. हायनाद् वयसि
स्त्रियां संख्यादेर्हायनाद् वयसि गम्यमाने ईर्भवति । द्विहायनी, त्रिहायणी गौः । वयसीति किम् ? द्विहायना शाला || ६ |
७. अनो बहुव्रीहेर्वा
स्त्रियामनन्ताद् बहुव्रीहेर्वा ईर्भवति । बहुराज्ञी, बहुराजा पूः । मनन्तादपि बहुव्रीहौ विधिरयं न तु मनन्तलक्षणो निषेधः । ' तनुमवजितलोकसारधाम्नीम्' इति । 'अधिराज्ञी ग्रामः' इति नित्यं संज्ञात्वात् ||७|