________________
॥श्रीः॥ परिशिष्टम् - १ श्रीश्रीपतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम्
स्त्रीत्वप्रकरणम्
१. स्त्रियामी स्त्रीत्वयोगिन्यर्थे वर्तमानाद् ईप्रत्ययो भवतीत्यधिकर्तव्यम् । स्त्रीत्वमिहार्थानुगतं प्रकृतिविशेषवाच्यं शब्दसंस्कारानुगुणं धर्मान्तरं न तु योन्यादिमत्त्वं स्त्रीत्वम् । 'कलत्रम्' इत्यत्र सत्यपि तद्विरहात् । तटीत्यसत्यपि तल्लक्षणयोगाच्च, यत् पुनः ‘उष्ट्री' इत्यादौ योन्यादिमतीं व्यक्तिः प्रतीयते तत् तत्रैवास्य स्त्रीत्वस्याभ्युपगमात् । यथा 'दुन्दुभ्यः' इति स्त्रीत्वादक्षावगमः, एवं पुनपुंसके च, तानि च स्वभावाद् युगपदेव लिङ्गरभिधीयन्ते इति न तटीप्रभृतिषु सङ्करापत्ति :
शब्दसंस्कारसिद्ध्यर्थमुपायाः परिकल्पिताः। सर्ववस्तुगता धर्माः शास्त्रे स्त्रीत्वादयस्त्रयः॥१। ये तु योन्यादिसम्बन्धाः प्राणिजातीयगोचराः। न तेऽभ्युपायाः संस्कारे कलत्रादितटादिषु ॥२॥ त्रिलिङ्गत्वेऽपि वस्तूनां शब्दानामीदृशी गतिः। गृह्णन्ति यदमी लिङ्गम् एकं द्वे त्रीणि वा न वा ॥३॥ स्त्रीत्वमश्वाः कुरङ्गीति लौकिकं यत् प्रतीयते। तत् तदन्वयिनि द्रव्ये शास्त्रीयस्त्रीत्वसंभवात् ॥४।१।
२. इतोऽक्त्यर्थादनादेशाद् वाऽकतेः क्तयर्थवर्जितादकतेरनादेशादिकारान्तात् स्त्रियाम् ईप्रत्ययो भवति वा । श्रेणिः, श्रेणी । रजनी, रजनिः । वाणी, वाणिः । पाली, पालिः । हली, हलिः । पुरन्ध्री, पुरन्ध्रः । तुलाकोटी, तुलाकोटिः । रात्रिः, रात्री । शाली, शालिः । शुची, शुचिः । स्त्रीपुंसयोत्तेः'वीची, शृणी, मणी, ऊर्मी, केली, मसी' इत्यपि स्यात् । प्रकृतिविशेषणत्वात् त्यर्थवर्जनाच्च उक्तेऽपि स्त्रीत्वे स्त्रीप्रत्ययः ।