________________
परिशिष्टम् - १
१०८ श्रत् प्रायो धाञि
1
प्रायो धाञ श्रदुपसर्गो भवति । श्रद्धा, श्रद्धत्ते श्रद्दधानः । प्रायः इति किम् ? श्रद्धाता, श्रद्धायः । उपसर्गे त्वातो डः किश्च न स्यात् ।। १०८ ।
१०९. न प्राकाम्यचार्थसम्भावनगर्हमात्रास्वपिः
५८३
एष्वर्थेष्वपिरुपसर्गे न भवति । प्राकाम्यं यथेष्टानुमतिः । अपि सिञ्च अपि स्तुहि । इह धात्वर्थोऽनुमन्यते । चार्थः समुच्चयः । अपि सिञ्च अपि स्तुहि । सिञ्च च तुहि चेत्यर्थः । इह क्रिया समुच्चीयते । संभावनं योग्यताध्यवसानम् । अपि सिञ्चन्मूलसहस्राणि, अपि स्तुयाद् राजानम् । इह क्रिया सम्भाव्यते । गयाम् - अपि सिञ्चेत् पलाण्डून् ब्राह्मणः । अपि स्तुयाद् वृषलम् । इह धात्वर्थः कुत्स्यते । मात्रा, लेशः, किञ्चिद् इत्यनर्थान्तरम् । अपि सिञ्चति, मनाग् इत्यर्थः । इह धात्वर्थो विशिष्यते । एष्वनुपसर्गत्वात् षो न स्यात् । एष्विति किम् ? अपि षिञ्चति, अपिधाय गतः । षत्वम् उपसर्गसमासश्च स्यात् || १०९ |
११०. सुः पूजायाम्
पूजायामर्थे सुरुपसर्गो न भवति । सुस्तुते, सुसिञ्चति, सुस्थितः, सुस्थितिः । धात्वर्थोऽत्र स्तूयते । पूजायामिति किम् ? सुषेकः ।। ११० । १११. अतिक्रमे चातिः
फलोदये क्रियानिवृत्तिरतिक्रमः तस्मिन् पूजायां चार्थेऽतिरुपसर्गो न भवति । अतिसिञ्चति शालीन्, सिञ्चत्यति शालीन् । अति स्तुये राजन्यम्, स्तुयेऽति राजन्यम् । शोभनं स्तौतीत्यर्थः। अनयोरिति किम् ? अतिषिञ्चति ।।१११ ।
११२. अधिपरी सिद्धार्थों
प्राप्तार्थावधिपरी नोपसर्गौ भवतः । करोत्यधि, अधिकरोति, गच्छत्यधि, अधिगच्छति,
परिकरोति करोति परि । अधिपर्योरुपरिभावः सर्वतोभावश्चार्थः, तौ यदा कुतोऽप्यवगम्येते तदैवोदाहरणम् । प्रयोगास्तु स्वरूपाविर्भावार्था एव । कर्मप्रवचनीयानां तु साक्षाद् धातुयोगो नास्तीत्यनुपसर्गता सिद्धैव ।। ११२ ।
॥ इति महामहोपाध्याय श्री श्रीपतिदत्तविरचितकातन्त्रपरिशिष्टे कारकप्रकरणं समाप्तम् ॥
1