________________
५८६
कातन्त्रव्याकरणम्
८. नालोप्यातः अलोप्योऽत् यस्य तस्मादनो बहुव्रीहेरीन भवति । बहुयुवा पू: । सुमघवा द्यौः । सुपर्वा, सुकर्मा कन्या । बहुव्रीहेरित्येव - अतिपर्वणी यष्टिः । वमसंयोगनिषेधे तु 'बहुयुवा' इत्यत्र कथन्न स्यात् ।।८।
९. स्त्र्याख्यादृतः नित्यस्त्रीलिङ्गाद् ऋकारान्ताद् ईर्न भवति । 'याता, माता, स्वसा, दुहिता, ननान्दा,तिनः, चतनः' इत्यसिद्धत्वाच्च ।स्त्रीप्रत्ययादृतेऽपि स्त्रीत्वावगमान्निषेधोऽयमनर्थक इति वार्तम् । ‘अतिमाता' इत्युपसर्जने तदभावाद् भूम्यादिभ्योऽप्यप्रसक्तेः, तयर्थवर्जनवैयर्थ्याच्च । स्त्र्याख्यादिति किम् ? नप्त्री, कैश्चिद् नप्तेयं कन्येति चेष्यते ।। ९ ।
१०. नः संख्यायाः नान्तायाः संख्याया ईर्न भवति । पञ्च स्त्रियः, नव कन्यकाः । अनर्थकोऽयमारम्भः । उक्तं हे भाष्ये - नान्ताभ्य: संख्याभ्यो निषेधानर्धक्यं लिङ्गाभावादिति । तर्हि उपसर्जनार्थम् अतिपञ्चानः, प्रियपञ्चानो दास्यः । तत्राप्यलिङ्गतेति चेत् ‘प्रियपञ्चानि कुलानि' इति शिभावः । पट्वतिपञ्चेति पुंवच्च न स्यात् । किञ्चालिङ्गत्वे पञ्चादीनां प्रियपञ्चा, कडारपञ्चेति पुंवन्न स्यात्, अतोऽप्ययमारम्भः ।।१०।
११. मनश्च मनन्ताच्च ईर्न भवति । ददातीति दामा स्त्री । सीमा, पामा । मनोऽनर्थकादपि अतिपटिमा स्त्री ।।११।
१२. आत् प्रधानात् अनुपसर्जनमिह प्रधानम्, आदिति प्रधानादिति च द्वयमधिकर्तव्यम् ।। १२ ।
१३. जातेरस्त्याख्यादनजादेः अजादिवर्जितादस्त्र्याख्यात् प्रधानाददन्ताज्जातिशब्दादीर्भवति । ब्राह्मणी, वृषली, किन्नरी, पिशाची, हंसी, कुक्कुरी, सी, कुरङ्गी, कठीति चरणत्वात् । कौञायनीति गोत्रत्वात् । अस्त्र्याख्यादिति किम् ? मक्षिका, बलाका । अनजादेरिति किम् ? अजा, चटका, मूषिका ।