________________
१७०
कातन्त्रव्याकरणम्
[दु० टी० ]
हेत्वर्थे० । हेतुश्चासावर्थश्चेति । अर्थशब्दः सुखप्रतिपत्त्यर्य एव । फलमनिष्पादयन्नपि क्रियायोग्यतया लोके हेतुरुच्यते इत्याह- योग्यतामात्रेत्यादि । क्रियासिद्धावसाधकतमत्वादित्यर्थः । ऋणे हेतौ तृतीयापवादा पञ्चमीष्यते । शताद् बन्धः । कथं शतेन बन्धितः इति हेतुकर्तृत्वात् तृतीया । 'बन्ध बन्धने' (८ । ३२), हेताविन् । तन्न वक्तव्यम् । हेतुकर्तृत्वाविवक्षायां बन्धनादिक्रियानिमित्तत्वात् शतमवधिरिति सिद्धा पञ्चमी । गुणे हेतावस्त्रीलिङ्गे विभाषापि न वक्तव्यैव । अवधिविवक्षया हेतुविवक्षया च सिद्धेति । जाड्याद् बद्धः, जाड्येन बद्धो नास्तीह घटोऽनुपलब्धेरिति । कथमेतेषामभावोऽनुपलब्धित इति । तथा प्रज्ञया युक्त इत्यपि विवक्षया । तथा अग्निरत्र धूमादिति गुणशब्देन सम्बन्धिमात्रं परार्थरूपापन्नं गृह्यते न द्रव्याश्रितमिति किंव्याख्यानमेतत् । संजानातेः कर्मणि विभाषया तृतीयेति न वक्तव्यम् । मात्रा संजानीते । मातरं संजानीते । संप्रतिभ्यां जानाती रुचादिः । जानातेः कर्मणोऽविवक्षितत्वाद् मात्रा करणभूतया संज्ञानं करोति श्रुतत्वान्मातुरेव संज्ञानं तदिति ।
"
स्तोकाल्पकृच्छ्रकतिपयेभ्योऽसत्त्ववृत्तिभ्यो विभाषया करणे पञ्चमीति न वक्तव्यम् । स्तोकान्मुक्तः, स्तोकेन मुक्तः । गुणार्थोऽत्र स्तोकशब्दः । स्तोकस्याभिनिर्वृत्तत्वादिदं प्रयुज्यते । स्तोकेन मुक्तः, स्तोकान्मुक्तः । स्तोकमुक्तौ निष्पन्नं बहु परमनिष्पन्नमित्यर्थः । अनभिनिर्वृत्तौ वा स्तोकस्य प्रयुज्यते । स्तोकेन पतितः, स्तोकात् पतितः । स्तोकमात्रं गतस्तेन पतितः इत्यर्थः । अल्पान्मुक्तः, अल्पेन मुक्तः । कृच्छ्रान्मुक्तः, कृच्छ्रेण मुक्तः । कतिपयान्मुक्तः, कतिपयेन मुक्तः । स्तोकेन मधुना मत्तः, स्तोकान्मधुनो मत्तः इत्यपि विवक्षया भवितव्यमेव प्रतिबन्धकाभावात् । यदा सोऽयमित्यभिसंबन्धात् तद्वति द्रव्ये वर्तन्ते तदा सत्त्वार्था इति । विवक्षातो हि कारकाणि भवन्तीति । यथा बलाहकाद् विद्योतते विद्युत्, बलाहको विद्योतते बलाहके विद्योतते बलाहकेन विद्योतते बलाहकस्य विद्योतते । एक एव बलाहको ऽवधिः पुनश्च कर्ता आधारः करणं संबन्धीति । तस्मात् साध्यसाधनभावस्याविरुद्धत्वात् तदेतद् युक्तमुक्तम् इति । उत्सर्गविधिस्तु यथायथं तत्र दर्शयिष्यामः ।। ३१५ ।
"
,
7