________________
५३४
कातन्वव्याकरणम् वा शालिनः, वाज्रिणः । समूहे तु भवत्येव । दण्डिनां समूहो दाण्डमिति । गाधिविदधिकेशिगणिपणिनां च । गाधिनोऽपत्यमिदं वा, तत्र भवो जातो वा गाधिनः । एवं वैदधिनः, कैशिनः, गाणिनः, पाणिनः । समूहे त्वणि भवत्येव-गाधिनां समूहो गाधम् इति । अन्यस्येनन्तस्यासमूहेऽनपत्ये चाणिनः । सांराविणम्, सांकोटिनम् । अभिविधौ भावे इनुण, तदन्तात् स्वार्थे नित्यमण् - रथिनः इदं राथिनम् । समूहेऽपत्ये तु नलोपो भवत्येव । मेधाविनोऽपत्यं मैधावो राथः, मेधाविनां समूहो मैधावं राथम् |
अनन्तस्याविशेषेऽणि - साम्नोऽपत्यं समूहो वा, तत्र भवो जातो वा सामनः, एवं वैमनः । षनहनधृतराज्ञामेवाणि । अनोऽकारस्य लोप इत्युक्तमेव | मनन्ताद् वर्मण एवापत्ये - वज्रवर्मणोऽपत्यं वाज्रवर्मणः । अन्यत्र सुषाम्नोऽपत्यं सौषामो भाद्रमासः । हितनाम्नो विभाषा - हितनाम्नोऽपत्यं हैतनामो हैतनामनो वा । ब्रह्मणो जातौ - ब्रह्मणोऽपत्यं ब्रह्मजातिर्ब्राह्मणः । अजातौ ब्रह्मणोऽपत्यं ब्राह्मः, ब्राह्मो मन्त्रः । ब्राह्म वस्त्रम्, ब्राह्मं हविः इत्याद्यनपत्ये च दृश्यते । उक्ष्णश्च । उक्ष्णोऽपत्यम् औक्ष्णः । अपत्य इत्येव - उक्ष्ण इदम् औक्ष्णं पदम् । ये चाभावकर्मणोः । सामसु साधु सामन्यम्, ब्राह्मण्यम् ।अभावकर्मणोरित्येव - राज्ञो भावः कर्म वा राज्यम् ।अश्मनो विकारश्चेल्लोपःआश्मः, आश्मनोऽन्यः । चर्मणः कोषश्चेत् – चार्मः, चार्मणोऽन्यः ।शुनः संकोचश्चेत् - शौवः, शौवनोऽन्यः । तथा सब्रह्मचारिपाठसर्पिकलापिकुथुमितैतिनि (लि) जाजनि(लि) लाङ्गलिशिखण्डिशूकरसम्बसुपर्वणाम् । सब्रह्मचारिण इमे साब्रह्मचाराः । एवं पैठसर्पाः । कलापिना प्रोक्तमधीयते कालापाः, कौथुमाः, कौथुमिनः । तैतिलिजाजलिनावाचार्यों तत्कृतग्रन्थ उपचारात् तैतिली, जाजली, तमधीते तैतिलः, जाजलः । एवं लाङ्गलः, शैखण्डः, शौकरः, साम्बः, सौपर्वः ।।४११ ।
[समीक्षा]
'ऊर्ध्वलोम्नोऽपत्यम्, अग्निशर्मणोऽपत्यम्' इस अर्थ में औ@लोमिः, आग्निशर्मिः' शब्दों के सिध्यर्थ कातन्त्रकार प्रकृत सूत्र से नलोप तथा "इवर्णावर्णयोर्लोपः" (२/६/४४) इत्यादि से अकार का लोप करते हैं, जबकि पाणिनि ने टिलोप का विधान किया है – “अबापत्यबहुत्वाभावादकारप्रत्ययो न, किन्तु बाह्लादित्वादिजि टिलोप इति भावः" (बालमनोरमा ४/१/८५-तद्धितप्रकरण) । अतः प्रायः उभयत्र साम्य ही है |