________________
२२६
कातन्त्रव्याकरणम् णत्वं न स्याद् इति । व्यवपृक्तपक्षेऽव्यवपृक्तपक्षेऽपि ऋवर्णग्रहणमिह कर्तव्यम् इति संज्ञासिद्धौ निश्चितमेव । पदग्रहणप्रस्तावात् पदस्यानन्त्यो मध्यो यो नकार इति मत्वाह – यस्यैवेत्यादि । स्वरहयवकवर्गपवर्गान्तर इति । यदा स्वरादयः एकैकाः समस्ता व्यस्ता वा तदाप्यन्तरत्वमुपलक्ष्यते । यथा – देवदत्तयज्ञदत्तविष्णुमित्रैः सह नाध्येयमिति एकेनापि नाधीयते द्वाभ्यामपि, न च सर्वान्तरत्वं क्वचित् संभवति । विसर्जनीयानुस्वारजिह्वामूलीयोपध्मानीयान्तर इति वक्तव्यं नेत्याह - स्वरत्वादित्यादि। स्वरव्यञ्जनयोर्मध्येऽनुस्वारविसर्जनीययोः पाठः उभयव्यपदेशार्थः । वर्णसमाम्नायविचारे निश्चित एवेति भावः । यथा राजाश्रिताः प्रकृतयो राजकुलवद् उपचर्यन्ते, यथा वा गुरुवद् गुरुपुत्रेऽप्युपचार इति, तथा विसर्जनीयसम्भवयोर्जिह्वामूलीयोपध्मानीययोर्विसर्जनीयोपचार इति ।
ननु 'स्थानिवदादेशो ह्यवर्णविधौ' (कात० प० ८) इति न्यायाद् अत्र वर्णाश्रिते विधौ स्थानिवद्भावो न दृश्यते । प्रकृतिप्रत्ययार्थप्रतिपत्तिं प्रति वर्णस्य केवलस्यास्वातन्त्र्यात् । प्रधानभावे खल्वयं व्यवहारः सिद्ध इति ? सत्यम् । जिह्वामूलीयोपध्मानीययो त्यन्तो ध्वनिकृतो विशेष इति विसर्जनीयेन सहाभेदोपचारः प्रवर्तते । यथा - 'अग्निर्माणवकः' इति । अग्नेः किञ्चित् तेजोऽनुकारादभेदोपचार इत्याह - विसर्जनीयोपचारादित्यादि । कश्चिन्नुविसर्जनीयान्तरमनुवृत्य नुग्रहणमनुस्वारोपलक्षणं मन्यते । यथा 'नक्षत्रमालोक्य वाचो विसृजेत्' इत्यनेन नक्षत्रविषयः कालो रात्रिर्लक्ष्यते। असत्यपि नक्षत्रदर्शने तस्मिन्नेव कालविषये वाचो विसृज्यान्ते सत्यपि नक्षत्रदर्शने तदितरकालविशेषे (असति कालविशेषे) न विसृज्यन्त इति । न्वागमाभावेऽनुस्वारे सति भवति 'तृहू, स्तृहू, तृन्हू हिंसायाम्' – 'तूंहणम्, तूंहणीयम्' इति | सत्यपि न्वागमेऽनुस्वाराभावान्न भवति प्रेन्वनम्, प्रेन्वनीयम् इति । इह हि “अनिदनुबन्धानाम्" (३।६।१) इति वर्जनाद् इदनुबन्धानामनुषङ्गमात्रं साधितम् इति। वकारोऽयं दन्त्योष्ठ्य इति अपवर्गीयत्वादवर्गे वकारे स एव नकार एवास्ति इत्युच्यते । अप्यधिकारे पुनरपिग्रहणं सुखार्थमेव ।
अपिशब्दस्येत्यादि । शूर्पाकारा नखा यस्या इति विग्रहः । न भवति च - शरनिवासः, शरनिवेशः, हर्यग्निः, दर्भानूपः, हरिनन्दी, हरिनन्दनः, गिरिनगरम् । गकारान्ताच्च न भवति - ऋचामयनम् ऋगयनम् । “पुरग-मिश्रक-सिध्रक-शारिका