________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२२७
कोटराग्रेभ्यो वनस्य" (द्र०, कात० परि०, ण० ३)- पुरगावणम् इत्यादि षष्ठीसमासो ह्रस्वस्य दीर्घता । वनस्याग्रे- अग्रेवणम् । अत्र सप्तम्या अलुक्संज्ञायां पूर्वनिपातश्च । प्र-निर्-अन्तर्-इक्षुप्लक्षशराम्र-कार्घ्यपीयूक्षाखदिरेभ्योऽसंज्ञायामपि । प्रगतं वनं निर्गतं वनात् प्रवणम्, निर्वणम् । वने अन्तः- अन्तर्वणं वनमध्य इत्यर्थः । अव्ययीभावोऽयम् इतरेषु षष्ठीसमासः । इक्षुवणम् इत्यादि । तथा ओषधिवृक्षेभ्यो द्वित्रिस्वरेभ्यो वा । दूर्वावणम्, दूर्वावनम्, शिरीषवणम्, शिरीषवनम् । “ओषध्यः फलपाकान्ता वृक्षाः पुष्पफलान्विताः" (मनु० १।४६, ४७) इति । इरिकादेर्न स्यात् - इरिकावनम् इत्यादि । अकारान्तादह्रोऽदन्तस्य (द्र०, कात० परि०, ण० ६)- पूर्वाह्नः, अपराह्नः । अकारान्तादिति किम् ? निर्गतमहो निरह्नम् । अदन्तस्येति किम् ? दीर्घाही शरत् । “बाह्याद् वाहनस्य" (कात० परि०, ण० ७)- उह्यतेऽनेनेति वाहनम् इत्यभिधानाद् दीर्घ :इक्षुवाहणं शकटम् । बाह्यादिति किम् ? दाक्षिवाहनम्, अभ्रवाहनम् । स्वामिविशेषे वर्तते दाक्षिस्वामिकम् इत्यर्थः । “देशाभिधाने पानस्य" (कात० परि०, ण० ८)। पीयते इति पानम् । अन्यत्रापीति कर्मणि युट् । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । यद्यपि सामानाधिकरण्यात् पुरुषा उच्यन्ते, तथाप्युशीनरादयो देशा एवाभिधीयन्ते । यथा 'मञ्चाः क्रोशन्ति' इति मञ्चशब्दसम्बन्धद्वारेण मानुषेष्वपि वर्तमानो मञ्चशब्द: स्वार्थमभिधत्ते इति ।
"भावकरणयोर्वा" (कात० परि०, ण० ९)-क्षीरपाणं क्षीरपानं वर्तते । क्षीरपाणः, क्षीरपानः कंसः । “गिरिनयादीनां च" (द्र०, कात० परि०, ण० १०)गिरिणदी, गिरिनदी । गिरिणद्धम्, गिरिनद्धम् । वक्रणितम्बा, वक्रनितम्बा | वक्रणदी, वक्रनदी। समासान्तसमीपयोश्च – माषवापिणौ, माषवापिनौ । “व्रताभीक्ष्ण्ययोश्च" (४।३।७८) इति णिनिः । माषवापिणा, माषवापिना | माषवापेण, माषवापेन । कर्मण्यण् । एवमन्यत्र । गर्गाणां भगिनी गर्गभगिनी । यदा तु गर्गाणां भगो गर्गभगः, सोऽस्यास्तीतीन् – गर्गभगिणी तदा भविष्यति । यथा मातृभोगाय हितः इतीनः मातृभोगीणः । खरपस्यापत्यं खारपायण इति "रवर्णेभ्यः" (२।४।४८) इत्यनेनैव । युवादीनां तु न दृश्यते - आर्ययूनाम्, क्षत्रिययूनाम् । प्रपक्वानि, परिपक्वानि । एकस्वरकवर्गवतोस्तु नित्यम् - वृत्रहणौ, उरःकाणि, उर केण । “आतोऽनुपसर्गात् कः" (४।३।४) । वस्त्रयुगिणौ, वस्त्रयुगाणि, वस्त्रयुगेण । समाराराशेर्नित्यत्वात् कृतणत्वा