________________
४७०
कातन्वयाकरणम् इति भावः ।देवमित्यादि । ननु परेषां विभक्तिविशेषस्य निर्दिष्टत्वान्न द्वितीयादिविभक्त्यन्तेभ्यो वतिस्तत् कथं न विरोध इत्याह - अत्रापीति । अत्र यद्यपि तदिति द्वितीयान्ताद् अर्हमित्यर्थे वतिप्रत्ययः । यथा देवमर्हति यद् दर्शनम्, पर्वतमर्हति यदवरोहणम्, ब्राह्मणमर्हति यद् दानम् इति । तथाप्युपमानार्थोऽस्तीत्यनेनैव सिद्धम् । विशिष्टविभक्तिनिर्देशस्याभावाद् इत्यभिप्रायः । गुणसाम्येऽपीति गुणहीनादपीति । गुणसामान्यमन्तरेण गुणहीनादपीत्यर्थः । सद्भावादिति सतो भावः सद्भावः सत्ता, सा च भवतेरर्थस्तस्येहापि सम्भवात् । अतः क्रियासाम्यमस्तीति सर्वत्र भवितव्यमेवेति । अतः "तेन तुल्यं क्रिया चेद् वतिः, तत्र तस्येव" (अ० ५/१/११५,११६) इति । तेनेति तृतीयान्तात् क्रियासाम्ये तत्र सप्तम्यन्तात् षष्ट्यन्ताच्च इवार्थे वत्यर्थं सूत्रद्वयं न कर्तव्यमिति दर्शितं व्यावृत्तेरभावात् ।। २७८।
[क० च०]
उपमाने० |वतिरितीकार उच्चारणार्थः, तदन्तोऽसंख्यत्वाद् अव्ययः । 'इवे वतिः' इति न कृतम् इवशब्दस्य प्रवृत्तित्वाभावादिति । इवार्थे इवशब्दस्तच्चोपमानमुपचारादिति गौरवमिति टीका | ननु "तदर्हम्" (अ० ५/१/११७) इति सूत्रेण तदिति द्वितीयान्तत्वात् तत्रार्हतीति चेत् क्रिया तदा वतिर्विधीयते, तदिह कथमित्याह - अत्रा-पीति | प्रकृतोदाहरणे देववदित्यादावित्यत एव चान्द्रैरपि देवमिव भवन्तं पश्यामीति कृत्वा तदर्हमिति वचनं प्रत्याख्यातम् । अथ "तेन तुल्यं क्रिया चेत्" (अ० ५/१/११५) इति वचने क्रियेति किं गुणसाम्ये गुणहीनद्रव्यसाम्यादिषु मा भूत् । भवन्मते कधन्न स्यादित्यभ्युपगमादेवाह - 'गुणसाम्येऽपि' इति । विशेषाभावोऽत्र बीजं यदप्युक्तम् । तुल्यक्रियेति किम् अतुल्यक्रियायां मा भूदप्यसङ्गतम्, व्यावृत्तेरभावादित्याह - सद्भावादिति ।सतो भावः सद्भावः सत्ता भवतीत्यस्याध्याहारेण सर्वत्र तुल्या क्रियास्तीति राज्ञे एव व्यवहतं भवति । देवदर्शनमिव दर्शनं भवतीत्यर्थः ।। ३७८ ।
[समीक्षा]
'ब्राह्मणवत्, मथुरावत्' आदि प्रयोगों में 'वति' प्रत्यय का विधान पाणिनि तथा कातन्त्रकार दोनों ही शाब्दिकाचार्यों ने किया है, परन्तु पाणिनि ने इसके ने इसके लिए चार सूत्र बनाए हैं - "तेन तुल्यं क्रिया चेद् वतिः, तत्र तस्येव, तदर्हम्,