________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
देवदत्तादिसादृश्यं
यज्ञदत्तादिसंस्थितम् ।
वतिप्रत्ययवाच्यं स्याद् एकाधिकरणं हि तत् ॥
भट्टस्य तु मतम् - गौरिव गवय इति । गौरिव प्रमेयः ।
४६९
तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । सादृश्यं वा तदन्चितम् ॥
प्रमेयमुपमानस्य
तथापि न दोषः । वतिरयमसंख्य इत्यव्ययः । यस्तु करणसाधनमाश्रित्योपमानार्थे वर्तमानान्नाम्नो वतिरित्याह - तदापि औपम्यं द्योत्यते वतिना । न विनोपमेयेन उपमानमिति । एकत्र द्योतनादन्यत्रापि द्योतनं गम्यते । किमेतेन यत्नेन येन यत् प्रतीयते तत् तस्यार्थ इति भावसाधनमेवात्र युक्तमिति । तदर्हमिति । देवमर्हति यद् दर्शनम्, पर्वतमर्हति यदवरोहणम्, ब्राह्मणमर्हति यद् दानमिति । यद्येवम् उपमानार्थोऽप्यस्तीति अनेनैव सिद्धम् । गुणसाम्येऽपीत्यादि । नहि पदार्थः सत्तां जहाति इति सर्वत्र क्रियासाम्यमस्तीति भवितव्यम् | किं " तेन तुल्यं क्रिया चेद् वतिः, तत्र तस्येव" (अ० ५/ १/११५,११६) इति विशिष्टविभक्तिनिर्देशेनेति भावः । ‘इवे वतिः' इति न कृतम् | इवार्थे इवशब्द उपचारात्, तच्चोपमानमिति प्रतिपत्तिगौरवं स्यात् || ३७८।
[वि० प० ]
उपमाने० ० । उपमितिरुपमानमिति । अनेन भावसाधनोऽयम् उपमानशब्दो न करणसाधन इति दर्शितम् । कथमेतत् ? सत्यम् । औपम्यं हि वतिप्रत्ययवाच्यं तदपेक्षया भाव एव युज्यते । उपमाने औपम्ये सादृश्येऽर्थे वतिरिति । तथा च भटूटःदेवदत्तादिसादृश्यं यज्ञदत्तादिसंस्थितम् । वतिप्रत्ययवाच्यं स्याद् एकाधिकरणं ततः ॥
यदि पुनरुपमीयते येन तदुपमानमिति करणसाधनोऽयमुपमानशब्दः । तस्मि। नुपमानेऽर्थे वर्तमानाच्छब्दाद् चतिरुच्यते न तदा साक्षादौपम्यं वत्यर्थ इत्युक्तं स्यात् । केवलमुपमेयमन्तरेण नोपमानमित्युभयगतमौपम्यं द्योत्यते वतिनेति । नैतच्च वृद्धमतमनुबध्नाति । यद्येवं येनोपमीयते यच्चोपमीयते तयोः स्थितमिदमौपम्यम्, वतिप्रत्ययस्तु तस्मिन्नर्थे कस्मात् प्रवर्ततामिति न देश्यम् । उपमेयस्य प्रतिपाद्यतया प्रधानत्वेन क्रियाभिसम्बन्धादप्रधानादेवोपमानाद् वतिः प्रवर्तते । यथा 'गौरिव गवयः' इत्यादाविवशब्द