________________
४३४
कातन्त्रव्याकरणम् त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्म कुलकीर्तिवर्द्धनम् ।
प्रसीद जीवेम सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली ॥ (वा० रा० ६/९/२२) इति श्लोकसमुदायः । अन्यत्र दशरथस्यापत्यं दाशरथिरिति स्यादेव ।।३७१।
[वि० प०]
इणतः। अकारान्तादिति । अनेन 'अत सातत्यगमने' (१/३) इत्ययमिह क्विबन्तो न गृह्यते इति दर्शयति । न ह्येकमुदाहरणं प्रति योगारम्भं प्रयोजयति । अस्यापत्यमित्यत्र व्यपदेशिवद्भावादकारान्तत्वम् । “इवर्णावर्णयोः" (२/६/४४) इत्यादिना अकारलोपे प्रत्ययमात्रं पदम् । कथमित्यादि ।
त्यजस्व कोपं कुलकीर्तिनाशनं भजस्व धर्म कुलकीर्तिवर्धनम् ।
प्रसीद जीवेम सबान्धवा वयं प्रदीयतां दाशरथाय मैथिली॥ (वा० रा०६/९/२२) इति श्लोकसमुदायः । अन्यत्र दशरथस्यापत्यं दाशरथिरिति स्यादेव ।।३७१।
[क० च०]
इणतः। अत इति किमिति | आदित्युक्ते लुप्तपञ्चमीशङ्कायामाकारान्तादेव स्यादिति भावः |शतसर्वेत्यादि ।शतादिकारकेभ्यः संख्यादिभ्यश्च – 'एकपुरुष' इत्यादिभ्योऽपत्यप्रत्ययो न भवति । किन्तु शतस्यापत्यमित्यादि वाक्यमेवेत्यर्थः । वृत्तौ कारक इति अपपाठ एव टीकाकृता एभ्य इत्यादीति दर्शितत्वात् । अतः कारकेभ्य इत्येव पाठः । कारकः शब्द एव गृह्यते न तु संज्ञा, शतादिसाहचर्यात् । अपत्यार्थस्य सम्बन्धिशब्दत्वेन षष्ठयन्तात् कारक संज्ञानुपपत्तेश्च । अनभिधानादिति । अभिधानं हि शब्दस्तस्याभावोऽनभिधानम् । शतादिशब्दानामपत्यार्थाभिधायिनामभावात् शतादिभ्यो विहितेन इणादिनापत्यार्थस्यानभिधानाच्च । सर्वशब्दस्य सर्वनामत्वे काकशब्दस्य च व्यक्तित्वे एव निषेधाभिधानम् । तेन सर्वो नाम कश्चित् तस्यापत्यं सार्विः । एवं काकिः । शुक्लादीनां च जातित्वादेव निषेधः । शुक्लो नाम कश्चित् तस्यापत्यं शौक्लिरिति कुलचन्द्रः । कथमित्यादि । अथ दशरथशब्दस्य सख्यादित्वात् कथमिह