________________
१७३
नामचतुष्टयाध्याये चतुर्वः कारकपादः
३१६. कुत्सितेऽगे [२।४।३१] [सूत्रार्थ] निन्दार्थबोधक अङ्गवाची शब्द से तृतीया विभक्ति होती है।।३१६। [दु० वृ०]
कुत्सितेऽङ्गे वर्तमानाल्लिङ्गात् तृतीया भवति । अक्ष्णा काणः । पादेन खञ्जः । पृष्ठेन कुब्जः । अक्षि काणम् अस्येति प्रधानत्वात् प्रथमैव ।।३१६।
[दु० टी०]
कुत्सि०। षष्ठीवदप्रधानादेवेति । अवयवधर्मेण समुदायो विशिष्यत एव । यथैकदेशस्याढ्यत्वेन नगरस्याढ्यत्वमुच्यते । भिन्नाधिकरणे वा सप्तमी अङ्गपदसान्निध्यादर्थादङ्गिनि कुत्सिते गम्यमानेऽङ्गे कुत्सिते वर्तमानादित्यर्थः । अङ्गशब्दो वा समुदायार्थः । यथा ‘अङ्गमुद्वर्तयति' शरीरमिति गम्यते । अर्शआदित्वाद् अत्प्रत्ययो वा ।संजाता कुत्सा अस्येति कुत्सितम्,तारकादित्वादितच्प्रत्ययो दृश्यते ।षष्ठ्यपवादत्वाद् भेदकोऽवयव इति गम्यते । तेनायमर्थः- अङ्गे शरीरे कुत्सिते गम्यमाने भेदकादवयवात् तृतीया भवति, अर्थादित्याह – 'अक्षि काणमस्य' इति । प्रधानात् प्रथमैव, इतरत्र षष्ठी स्यादेव । कुत्सितस्याङ्गिना सह गम्यमानत्वात् काणादयो हि गुणवचनास्तद्वति वर्तन्ते । ननु काणादीनां नियतविषयत्वाद् अक्ष्यादीनामप्रयोग एव व्यावृत्त्यभावात् ? सत्यम् । सामान्योपक्रमे विशेषप्रयोग इति, तथा लोके विवक्षादर्शनाद् अक्ष्णेत्युक्ते हि सन्देहः, किमनेन विवक्षितमिति काण इत्युच्यते ? यथा द्वौ घटावानयेति काणोऽक्ष्णेति प्रयोगो दुष्ट एव तस्माद् विशेषण इत्यनेन न सिध्यति कथं केनचित् प्रत्याख्यातम् इति ।।३१६।
[वि० प०]
कुत्सि० । इहापि षष्ठीवदप्रधानादेव तृतीया प्रवर्तते । यदा काणादयः शब्दा अवयवविषयाः सन्तस्तद्धर्मयोगादवयविनि समुदाये वर्तन्ते तदा अक्ष्यादीनामप्राधान्यम्, यदा तु केवलमवयववृत्तयस्तदा तेषामेव प्रतिपाद्यत्वात् प्रधानत्वम् इति । लिङ्गार्थमात्रे प्रथमैवेत्याह - अक्षि काणमित्यादि । ननु काणादयो विशिष्टविषयास्तत्कथम् अक्ष्यादयः प्रयुज्यन्ते व्यवच्छेद्याभावात् । नहि काण इत्युक्ते पादेन शिरसा वेति संदेहोऽस्ति येन